शिवनामावल्यष्टकम्

।।श्रीः।। शिवनामावल्यष्टकम्हे चन्द्रचूड मदनान्तक शूलपाणे स्थाणो गिरीश गिरिजेश महेश शंभो। भूतेश भीतभयसूदन मामनाथंसंसारदुःखगहनाज्जगदीश रक्ष।।1।। हे पार्वतीहृदयवल्लभ चन्द्रमौले भूताधिप प्रमथनाथ गिरीशचाप। हे वामदेव भव रुद्र पिनाकपाणेसंसारदुःखगहनाज्जगदीश रक्ष।।2।। हे नीलकण्ठ वृषभध्वज पञ्चवक्त्र लोकेश शेषवलय प्रमथेश शर्व। हे धूर्जटे पशुपते गिरिजापते मांसंसारदुःखगहनाज्जगदीश रक्ष।।3।। हे विश्वनाथ शिव शंकर देवदेव गङ्गाधर प्रमथनायक नन्दिकेश। बाणेश्वरान्धकरिपो हर लोकनाथसंसारदुःखगहनाज्जगदीश रक्ष।।4।। वाराणसीपुरपते मणिकर्णिकेश वीरेश… Continue reading शिवनामावल्यष्टकम्

शिवभुजंगम्

।।श्रीः।। ।।शिवभुजंगम्।।गलद्दानगण्डं मिलद्भृङ्गषण्डं चलच्चारुशुण्डं जगत्त्राणशौण्डम्। कनद्दन्तकाण्डं विपद्भङ्गचण्डंशिवप्रेमपिण्डं भजे वक्रतुण्डम्।।1।। अनाद्यन्तमाद्यं परं तत्त्वमर्थं चिदाकारमेकं तुरीयं त्वमेयम्। हरिब्रह्ममृग्यं परब्रह्मरूपंमनोवागतीतं महःशैवमीडे।।2।। स्वशक्त्यादिशक्त्यन्तसिंहासनस्थं मनोहारिसर्वाङ्गरत्नोरुभूषम्। जटाहीन्दुगङ्गास्थिशम्याकमौलिंपराशक्तिमित्रं नुमः पञ्चवक्त्रम्।।3।। शिवेशानतत्पूरुषाघोरवामा दिभिः पञ्चभिर्हृन्मुखैः षङ्भिरङ्गैः। अनौपम्य षट्त्रिंशतं तत्त्वविद्यामतीतं परं त्वां कथं वेत्ति को वा।।4।। प्रवालप्रवाहप्रभाशोणमर्धं मरुत्वन्मणिश्रीमहःश्याममर्धम्। गुणस्यूतमेतद्वपुः शैवमन्तःस्मरामि स्मरापत्तिसंपत्तिहेतोः।।5।। स्वसेवासमायातदेवासुरेन्द्रा नमन्मौलिमन्दारमालाभिषक्तम्। नमस्यामि शंभो पदाम्भोरुहं तेभवाम्भोधिपोतं भवानीविभाव्यम्।।6।। जगन्नाथ मन्नाथ गौरीसनाथ प्रपन्नानुकम्पिन्विपन्नार्तिहारिन्। महःस्तोममूर्ते समस्तैकबन्धोनमस्ते नमस्ते… Continue reading शिवभुजंगम्

उमामहेश्वरस्तोत्रम्

।।श्रीः।। ।।उमामहेश्वरस्तोत्रम्।।नमः शिवाभ्यां नवयौवनाभ्यां परस्पराश्िलष्टवपुर्धराभ्यां नगेन्द्रकन्यावृषकेतनाभ्यांनमो नमः शंकरपार्वतीभ्याम्।।1।। नमः शिवाभ्यां सरसोत्सवाभ्यां नमस्कृताभीष्टवरप्रदाभ्याम्। नारायणेनार्चितपादुकाभ्यांनमो नमः शंकरपार्वतीभ्याम्।।2।। नमः शिवाभ्यां वृषवाहनाभ्यां विरिञ्चिविष्ण्विन्द्रसुपूजिताभ्याम्। विभूतिपाटीरविलेपनाभ्यांनमो नमः शंकरपार्वतीभ्याम्।।3।। नमः शिवाभ्यां जगदीश्वराभ्यां जगत्पतिभ्यां जयविग्रहाभ्याम् जम्भारिमुख्यैरभिवन्दिताभ्यांनमो नमः शंकरपार्वतीभ्याम्।।4।। नमः शिवाभ्यां परमौषधाभ्यां पञ्चाक्षरीपञ्जररञ्जिताभ्याम्। प्रपञ्चसृष्टिस्थितिसंहृताभ्यांनमो नमः शंकरपार्वतीभ्याम्।।5।। नमः शिवाभ्यामतिसुन्दराभ्या मत्यन्तमासक्तहृदम्बुजाभ्याम्। अशेषलोकैकहितंकराभ्यांनमो नमः शंकरपार्वतीभ्याम्।।6।। नमः शिवाभ्यां कलिनाशनाभ्यां कङ्कालकल्याणवपुर्धराभ्याम्। कैलासशैलस्थितदेवताभ्यांनमो नमः शंकरपार्वतीभ्याम्।।7।। नमः शिवाभ्यामशुभापहाभ्या मशेषलोकैकविशेषिताभ्याम्। अकुण्ठिताभ्यां स्मृतिसंभृताभ्यांनमो… Continue reading उमामहेश्वरस्तोत्रम्

Exit mobile version