।।श्रीः।। ।।शिवापराधक्षमापणस्तोत्रम्।।आदौ कर्म प्रसङ्गात्कलयति कलुषं मातृकुक्षौ स्थितं मां विण्मूत्रामेध्यमध्ये क्वथयति नितरां जाठरो जातवेदाः। यद्यद्वै तत्र दुःखं व्यथयति नितरां शक्यते केन वक्तुंक्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो।।1।। बाल्ये दुःखातिरेकान्मललुलितवपुः स्तन्यपाने पिपासु र्नो शक्तश्चेन्द्रियेभ्यो भव मलजनिता जन्तवो मां तुदन्ति। नानारोगातिदुःखाद्रुदितपरवशः शंकरं न स्मरामिक्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो।।2।। प्रौढोऽहं यौवनस्थो विषयविषधरैः पञ्चभिर्मर्मसंधौ दष्टो… Continue reading शिवापराधक्षमापणस्तोत्रम्
Month: August 2022
शिवपादादिकेशान्तवर्णनस्तोत्रम्
।।श्रीः।। ।।शिवपादादिकेशान्तवर्णनस्तोत्रम्।।कल्याणं नो विधत्तां कटकतटलसत्कल्पवाटीनिकुञ्ज क्रीडासंसक्तविद्याधरनिकरवधूगीतरुद्रापदानः। तारैर्हेरम्बनादैस्तरलितनिनदत्तारकारातिकेकीकैलासः शर्वनिर्वृत्यभिजनकपदः सर्वदा पर्वतेन्द्रः।।1।। यस्य प्राहुः स्वरूपं सकलदिविषदां सारसर्वस्वयोगं यस्येषुः शार्ङ्गधन्वा समजनि जगतां रक्षणे जागरूकः। मौर्वी दर्वीकराणामपि च परिबृढः पूस्त्रयी सा च लक्ष्यंसोऽव्यादव्याजमस्मानशिवभिदनिशं नाकिनां श्रीपिनाकः।।2।। आतङ्कावेगहारी सकलदिविषदामाङ्घ्रिपद्माश्रयाणां मातङ्गाद्युग्रदैत्यप्रकरतनुगलद्रक्तधाराक्तधारः। क्रूरः सूरायुतानामपि च परिभवं स्वीयभासा वितन्वन्घोराकारः कुठारो दृढतरदुरिताख्याटवीं पाटयेन्नः।।3।। कालारातेः कराग्रे कृतवसतिरुरःशाणशातो रिपूणां काले काले कुलाद्रिप्रवरतनयया कल्पितस्नेहलेपः। पायान्नः पावकार्चिःप्रसरसखमुखः पापहन्ता नितान्तंशूलः… Continue reading शिवपादादिकेशान्तवर्णनस्तोत्रम्
शिवानन्दलहरी
।।श्रीः।। ।।शिवानन्दलहरी।।कलाभ्यां चूडालंकृतशशिकलाभ्यां निजतपः फलाभ्यां भक्तेषु प्रकटितफलाभ्यां भवतु मे। शिवाभ्यामस्तोकत्रिभुवनशिवाभ्यां हृदि पुनर्भवाभ्यामानन्दस्फुरदनुभवाभ्यां नतिरियम्।।1।। गलन्ती शंभो त्वच्चरितसरितः किल्बिषरजो दलन्ती धीकुल्यासरणिषु पतन्ती विजयताम्। दिशन्ती संसारभ्रमणपरितापोपशमनंवसन्ती मच्चेतोह्रदभुवि शिवानन्दलहरी।।2।। त्रयीवेद्यं हृद्यं त्रिपुरहरमाद्यं त्रिनयनं जटाभारोदारं चलदुरगहारं मृगधरम्। महादेवं देवं मयि सदयभावं पशुपतिंचिदालम्बं साम्बं शिवमतिविडम्बं हृदि भजे।।3।। सहस्रं वर्तन्ते जगति विबुधाः क्षुद्रफलदा न मन्ये स्वप्ने वा तदनुसरणं तत्कृतफलम्। हरिब्रह्मादीनामपि निकटभाजामसुलभंचिरं याचे… Continue reading शिवानन्दलहरी
श्रीदक्षिणामूर्तिवर्णमालास्तोत्रम्
।।श्रीः।। ।।श्रीदक्षिणामूर्तिवर्णमालास्तोत्रम्।।मित्येतद्यस्य बुधैर्नाम गृहीतं यद्भासेदं भाति समस्तं वियदादि। यस्याज्ञातः स्वस्वपदस्था विधिमुख्यास्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि।।1।। नम्राङ्गाणां भक्तिमतां यः पुरुषार्था न्दत्वा क्षिप्रं हन्ति च तत्सर्वविपत्तीः। पादाम्भोजाधस्तनितापस्मृतिमीशंतं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि।।2।। मोहध्वस्त्यै वैणिकवैयासिकिमुख्याः संविन्मुद्रापुस्तकवीणाक्षगुणान्यम्। हस्ताम्भोजैर्बिभ्रतमाराधितवन्तस्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि।।3।। भद्रारूढं भद्रदमाराधयितृ़णां भक्तिश्रद्धापूर्वकमीशं प्रणमन्ति। आदित्या यं वाञ्छितसिद्ध्यै करुणाब्धिंतं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि।।4।। गर्भान्तःस्थाः प्राणिन एते भवपाश च्छेदे दक्षं निश्िचतवन्तः शरणं यम्। आराध्याङ्घ्रिप्रस्फुरदम्भोरुहयुग्मंतं… Continue reading श्रीदक्षिणामूर्तिवर्णमालास्तोत्रम्