# द्वादशलिङ्गस्तोत्रम्

> ।।श्रीः।। ।।द्वादशलिङ्गस्तोत्रम्।। सौराष्ट्रदेशे वसुधावकाशे ज्योतिर्मयं चन्द्रकलावतंसम्। भक्तिप्रदानाय कृतावतारं तं सोमनाथं शरणं प्रपद्ये।।1।। श्रीशैलश्रृङ्गे विविधप्रसङ्गे शेषाद्रिश्रृङ्गेऽपि सदा वसन…

- **Canonical URL:** https://batukuvacha.com/posts/dvaadshlinggstotrm/
- **Published:** 2023-05-03
- **Publisher:** बटुक उवाच (Batuk Uvacha) — https://batukuvacha.com
- **Language:** Hindi (hi), with Sanskrit passages
- **Categories:** स्तोत्र
- **Tags:** आदिशङ्कराचार्यः, शिव

_Cite as: बटुक उवाच, “द्वादशलिङ्गस्तोत्रम्”, https://batukuvacha.com/posts/dvaadshlinggstotrm/_

---
> ।।श्रीः।। \

> ।।द्वादशलिङ्गस्तोत्रम्।।
सौराष्ट्रदेशे वसुधावकाशे

> ज्योतिर्मयं चन्द्रकलावतंसम्।

भक्तिप्रदानाय कृतावतारं
> तं सोमनाथं शरणं प्रपद्ये।।1।।

श्रीशैलश्रृङ्गे विविधप्रसङ्गे

> शेषाद्रिश्रृङ्गेऽपि सदा वसन्तम्।

तमर्जुनं मल्लिकपूर्वमेनं
> नमामि संसारसमुद्रसेतुम्।।2।।

अवन्तिकायां विहितावतारं

> मुक्तिप्रदानाय च सज्जनानाम्।

अकालमृत्योः परिरक्षणार्थं
> वन्दे महाकालमहं सुरेशम्।।3।।

कावेरिकानर्मदयोः पवित्रे

> समागमे सज्जनतारणाय।

सदैव मान्धातृपुरे वसन्त
> मोंकारमीशं [शिव](/posts/shivbhujngm/)मेकमीढे।।4।।

पूर्वोत्तरे पारलिकाभिधाने

> सदाशिवं तं गिरिजासमेतम्।

सुरासुराराधितपादपद्मं
> श्रीवैद्यनाथं सततं नमामि।।5।।

आमर्दसंज्ञे नगरे च रम्ये

> विभूषिताङ्गं विविधैश्व भोगैः।

सद्भुक्तिमुक्तिप्रदमीशमेकं
> श्रीनागनाथं शरणं प्रपद्ये।।6।।

सानन्दमानन्दवने वसन्त

> मानन्दकन्दं हतपापबृन्दम्।

वाराणसीनाथमनाथनाथं
> श्रीविश्वनाथं शरणं प्रपद्ये।।7।।

यो डाकिनीशाकिनिकासमाजे

> निषेव्यमाणः पिशिताशनैश्च।

सदैव भीमादिपदप्रसिद्धं
> तं शंकरं भक्तहितं नमामि।।8।।

श्रीताम्रपर्णीजलराशियोगे

> निबद्धय सेतुं निशि बिल्वपत्रैः।

श्रीरामचन्द्रेण समर्चितं तं
> रामेश्वराख्यं सततं नमामि।।9।।

सिहाद्रिपाश्र्वेऽपि तटे रमन्तं

> गोदावरीतीरपवित्रदेशे।

यद्[दर्शन](/posts/1-paashcaaty-drshn-1-1-drshnkii/)ात्पातकजातनाशः
> प्रजायते त्र्यम्बकमीशमीडे।।10।।

हिमाद्रिपाश्र्वेऽपि तटे रमन्तं

> संपूज्यमानं सततं मुनीन्द्रैः।

सुरासुरैर्यक्षमहोरगाद्यैः
> केदारसंज्ञं शिवमीशमीडे।।11।।

एलापुरीरम्यशिवालयेऽस्मि

> न्समुल्लसन्तं त्रिजगद्वरेण्यम्।

वन्दे महोदारतरस्वभावं
> सदाशिवं तं धिषणेश्वराख्यम्।।12।।

एतानि लिङ्गानि सदैव मर्त्याः

> प्रातः पठन्तोऽमलमानसाश्च।

ते पुत्रपौत्रैश्च धनैरुदारैः
> सत्कीर्तिभाजः सुखिनो भवन्ति।।13।।

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ

> द्वादशलिङ्गस्तोत्रं संपूर्णम्।
