# शिवापराधक्षमापणस्तोत्रम्

> ।।श्रीः।। ।।शिवापराधक्षमापणस्तोत्रम्।। आदौ कर्म प्रसङ्गात्कलयति कलुषं मातृकुक्षौ स्थितं मां विण्मूत्रामेध्यमध्ये क्वथयति नितरां जाठरो जातवेदाः। यद्यद्वै तत्र दुःखं व्यथयति नितरां शक्यते केन वक्तुं क्ष…

- **Canonical URL:** https://batukuvacha.com/posts/shivaapraadhkssmaapnnstotr/
- **Published:** 2022-08-22
- **Publisher:** बटुक उवाच (Batuk Uvacha) — https://batukuvacha.com
- **Language:** Hindi (hi), with Sanskrit passages
- **Categories:** स्तोत्र
- **Tags:** आदिशङ्कराचार्यः, शिव

_Cite as: बटुक उवाच, “शिवापराधक्षमापणस्तोत्रम्”, https://batukuvacha.com/posts/shivaapraadhkssmaapnnstotr/_

---
> ।।श्रीः।। \

> ।।[शिव](/posts/shivbhujngm/)ापराधक्षमापण[स्तोत्र](/posts/dvaadshlinggstotrm/)म्।।
आदौ कर्म प्रसङ्गात्कलयति कलुषं मातृकुक्षौ स्थितं मां

> विण्मूत्रामेध्यमध्ये क्वथयति नितरां जाठरो जात[वेद](/posts/ythemaan-vaacn-klyaanniim/)ाः।

यद्यद्वै तत्र दुःखं व्यथयति नितरां शक्यते केन वक्तुं
> क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो।।1।।

बाल्ये दुःखातिरेकान्मललुलितवपुः स्तन्यपाने पिपासु

> र्नो शक्तश्चेन्द्रियेभ्यो भव मलजनिता जन्तवो मां तुदन्ति।

नानारोगातिदुःखाद्रुदितपरवशः शंकरं न स्मरामि
> क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो।।2।।

प्रौढोऽहं यौवनस्थो विषयविषधरैः पञ्चभिर्मर्मसंधौ

> दष्टो नष्टो विवेकः सुतधनयुवतिस्वादसौख्ये निषण्णः।

शैवे चिन्ताविहीनं मम हृदयमहो मानगर्वाधिरूढं
> क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो।।3।।

वार्धक्ये चेन्द्रियाणां विकलगतिमतश्चाधिदैवादितापैः

> प्राप्तै रोगैर्वियोगैर्व्यसनकृशतनोर्ज्ञप्तिहीनं च दीनम्।

मिथ्यामोहाभिलाषैर्भ्रमति मम मनो धूर्जटेर्ध्यानशून्यं
> क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो।।4।।

स्नात्वा प्रत्यूषकाले स्नपनविधिविधौ नाहृतं गाङ्गतोयं

> पूजार्थं वा कदाचिद्बहुतरगहनेऽखण्डबिल्वीदलं वा।

नानीता पद्ममाला सरसि विकसिता गन्धपुष्पैस्त्वदर्थं
> क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो।।5।।

दुग्धैर्मध्वाज्ययुक्तैर्दधिगु़डसहितैः स्नापितं नैव लिङ्गं

> नो लिप्तं चन्दनाद्यैः कनकविरचितैः पूजितं न प्रसूनैः।

धूपैः कर्पूरदीपैर्विविधरसयुतैर्नैव भक्ष्योपहारैः
> क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो।।6।।

नो शक्यं स्मार्तकर्म प्रतिपदगहने प्रत्यवायाकुलाढ्ये

> श्रौते वार्ता कथं मे द्विजकुलविहिते ब्रह्ममार्गानुसारे।

तत्त्वेऽज्ञाते विचारे श्रवणमननयोः किं निदिध्यासितव्यं
> क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो।।7।।

ध्यात्वा चित्ते शिवाख्यं प्रचुरतरधनं नैव दत्तं द्विजेभ्यो

> हव्यं ते लक्षसंख्यैर्हुतवहवदने नार्पितं बीजमन्त्रैः।

नो तप्तं गाङ्गतीरे व्रतजपनियमै रुद्रजाप्यं न जप्तं
> क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो।।8।।

नग्नो निःसंगशुद्धस्त्रिगुणविरहितो ध्वस्तमोहान्धकारो

> नासाग्रन्यस्तदृष्टिर्विदितभवगुणो नैव दृष्टः कदाचित्।

उन्मन्यावस्थया त्वां विगतगतिमतिः शंकरं न स्मरामि
> क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो।।9।।

स्थित्वा स्थाने सरोजे प्रणवमयमरुत्कुम्भिते सूक्ष्ममार्गे

> शान्ते स्वान्ते प्रलीने प्रकटितविभवे दिव्यरूपे शिवाख्ये।

लिङ्गाग्रे ब्रह्मवाक्ये सकलतनुगतं शंकरं न स्मरामि
> क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो।।10।।

हृद्यं वेदान्तवेद्यं हृदयसरसिजे दीप्तमुद्यत्प्रकाशं

> सत्यं शान्तस्वरूपं सकलमुनिमनःपद्मषण्डैकवेद्यम्।

जाग्रत्स्वप्ने सुषुप्तौ त्रिगुणविरहितं शंकरं न स्मरामि
> क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो।।11।।

चन्द्रोद्भासितशेखरे स्मरहरे गङ्गाधरे शंकरे

> सर्पैर्भूषितकण्ठकर्णविवरे नेत्रोत्थवैश्वानरे।

दन्तित्वक्कृतसुन्दराम्बरधरे त्रैलोक्यसारे हरे
> मोक्षार्थं कुरु चित्त वृत्तिममलामन्यैस्तु किं कर्मभिः।।12।।

किं यानेन धनेन वाजिकरिभिः प्राप्तेन राज्येन किं

> किं वा पुत्रकलत्रमित्रपशुभिर्देहेन गेहेन किम्।

ज्ञात्वैतत्क्षणभङ्गुरं सपदि रे त्याज्यं मनो दूरतः
> स्वात्मार्थं गुरुवाक्यतो भज भज श्रीपार्वतीवल्लभम्।।13।।

पौरोहित्यं रजनिचरितं ग्रामणीत्वं नियोगो

> माठापत्यं ह्यनृतवचनं साक्षिवादः परान्नम्।

ब्रह्मद्वेषः खलजनरतिः प्राणिनां निर्दयत्वं
> मा भूदेवं मम पशुपते जन्मजन्मान्तरेषु।।14।।

आयुर्नश्यति पश्यतां प्रतिदिनं याति क्षयं यौवनं

> प्रत्यायान्ति गताः पुनर्न दिवसाः कालो जगद्भक्षकः।

लक्ष्मीस्तोयतरङ्गभङ्गचपला विद्युच्चलं जीवितं
> तस्मान्मां शरणागतं करुणया त्वं रक्ष रक्षाधुना।।15।।

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ

> शिवापराधक्षमापणस्तोत्रं संपूर्णम्।।
