# शिवभुजंगम्

> ।।श्रीः।। ।।शिवभुजंगम्।। गलद्दानगण्डं मिलद्भृङ्गषण्डं चलच्चारुशुण्डं जगत्त्राणशौण्डम्। कनद्दन्तकाण्डं विपद्भङ्गचण्डं शिवप्रेमपिण्डं भजे वक्रतुण्डम्।।1।। अनाद्यन्तमाद्यं परं तत्त्वमर्थं चिदाकारमेकं तुर…

- **Canonical URL:** https://batukuvacha.com/posts/shivbhujngm/
- **Published:** 2021-12-23
- **Publisher:** बटुक उवाच (Batuk Uvacha) — https://batukuvacha.com
- **Language:** Hindi (hi), with Sanskrit passages
- **Categories:** स्तोत्र
- **Tags:** आदिशङ्कराचार्यः, शिव

_Cite as: बटुक उवाच, “शिवभुजंगम्”, https://batukuvacha.com/posts/shivbhujngm/_

---
> ।।श्रीः।। \

> ।।शिवभुजंगम्।।
गलद्दानगण्डं मिलद्भृङ्गषण्डं

> चलच्चारुशुण्डं जगत्त्राणशौण्डम्।

कनद्दन्तकाण्डं विपद्भङ्गचण्डं
> शिवप्रेमपिण्डं भजे वक्रतुण्डम्।।1।।

अनाद्यन्तमाद्यं परं तत्त्वमर्थं

> चिदाकारमेकं तुरीयं त्वमेयम्।

हरिब्रह्ममृग्यं परब्रह्मरूपं
> मनोवागतीतं महःशैवमीडे।।2।।

स्वशक्त्यादिशक्त्यन्तसिंहासनस्थं

> मनोहारिसर्वाङ्गरत्नोरुभूषम्।

जटाहीन्दुगङ्गास्थिशम्याकमौलिं
> पराशक्तिमित्रं नुमः पञ्चवक्त्रम्।।3।।

शिवेशानतत्पूरुषाघोरवामा

> दिभिः पञ्चभिर्हृन्मुखैः षङ्भिरङ्गैः।

अनौपम्य षट्त्रिंशतं तत्त्वविद्या
> मतीतं परं त्वां कथं वेत्ति को वा।।4।।

प्रवालप्रवाहप्रभाशोणमर्धं

> मरुत्वन्मणिश्रीमहःश्याममर्धम्।

गुणस्यूतमेतद्वपुः शैवमन्तः
> स्मरामि स्मरापत्तिसंपत्तिहेतोः।।5।।

स्वसेवासमायातदेवासुरेन्द्रा

> नमन्मौलिमन्दारमालाभिषक्तम्।

नमस्यामि शंभो पदाम्भोरुहं ते
> भवाम्भोधिपोतं भवानीविभाव्यम्।।6।।

जगन्नाथ मन्नाथ गौरीसनाथ

> प्रपन्नानुकम्पिन्विपन्नार्तिहारिन्।

महःस्तोममूर्ते समस्तैकबन्धो
> नमस्ते नमस्ते पुनस्ते नमोऽस्तु।।7।।

विरूपाक्ष विश्वेश विश्वादिदेव

> त्रयीमूल शंभो शिव त्र्यम्बक त्वम्।

प्रसीद स्मर त्राहि पश्यावमुक्त्यै
> क्षमां प्राप्नुहि त्र्यक्ष मां रक्ष मोदात्।।8।।

महादेव देवेश देवादिदेव

> स्मरारे पुरारे यमारे हरेति।

ब्रुवाणः स्मरिष्यामि भक्त्या भवन्तं
> ततो मे दयाशील देव प्रसीद।।9।।

त्वदन्यः शरण्यः प्रपन्नस्य नेति

> प्रसीद स्मरन्नेव हन्यास्तु दैन्यम्।

न चेत्ते भ[वेद](/posts/ythemaan-vaacn-klyaanniim/)्भक्तवात्सल्यहानि
> स्ततो मे दयालो सदा संनिधेहि।।10।।

अयं दानकालस्त्वहं दानपात्रं

> भवानेव दाता त्वदन्यं न याचे।

भवद्भक्तिमेव स्थिरां देहि मह्यं
> कृपाशील शंभो कृतार्थोऽस्मि तस्मात्।।11।।

पशुं वेत्सि चेन्मां तमेवाधिरूढः

> कलङ्कीति वा मूर्ध्नि धत्से तमेव।

द्विजिह्वः पुनः सोऽपि ते कण्ठभूषा
> त्वदङ्गीकृताः शर्व सर्वेऽपि धन्याः।।12।।

न शक्नोमि कर्तुं परद्रोहलेशं

> कथं प्रीयसे त्वं न जाने गिरीश।

तथाहि प्रसन्नोऽसि कस्यापि कान्ता
> सुतद्रोहिणो वा पितृद्रोहिणो वा।।13।।

स्तुतिं ध्यानमर्चां यथावद्विधातुं

> भजन्नप्यजानन्महेशावलम्बे।

त्रसन्तं सुतं त्रातुमग्रे मृकण्डो
> र्यमप्राणनिर्वापणं त्वत्पदाब्जम्।।14।।

शिरोदृष्टिहृद्रोगशूलप्रमेह

> ज्वरार्शोजरायक्ष्महिक्काविषार्तान्।

त्वमाद्यो भिषग्भेषजं भस्म शंभो
> त्वमुल्लाघयास्मान्वपुर्लाघवाय।।15।।

दरिद्रोऽस्म्यभद्रोऽस्मि भग्नोऽस्मि दूये

> विषण्णोऽस्मि सन्नोऽस्मि खिन्नोऽस्मि चाहम्।

भवान्प्राणिनामन्तरात्मासि शंभो
> ममाधिं न वेत्सि प्रभो रक्ष मां त्वम्।।16।।

त्वदक्ष्णोः कटाक्षः पतेत्त्र्यक्ष यत्र

> क्षणं क्ष्मा च लक्ष्मीः स्वयं तं वृणाते।

किरीटस्फुरच्चामरच्छत्रमाला
> कलाचीगजक्षौमभूषाविशेषैः।।17।।

भवान्यै भवायापि मात्रे च पित्रे

> मृडान्यै मृडायाप्यघघ्न्यै मखघ्ने।

शिवाङ्ग्यै शिवाङ्गाय कुर्मः शिवायै
> शिवायाम्बिकायै नमस्त्र्यम्बकाय।।18।।

भवद्गौरवं मल्लघुत्वं विदित्वा

> प्रभो रक्ष कारुण्यदृष्ट्यानुगं माम्।

शिवात्मानुभावस्तुतावक्षमो़ऽहं
> स्वशक्त्या कृतं मेऽपराधं क्षमस्व।।19।।

यदा कर्णरन्ध्रं व्रजेत्कालवाह

> द्विषत्कण्ठघण्टाघणात्कारनादः।

वृषाधीशमारुह्य देवौपवाह्यं
> तदा वत्स मा भीरिति प्रीणय त्वम्।।20।।

यदा दारुणाभाषणा भीषणा मे

> भविष्यन्त्युपान्ते कृतान्तस्य दूताः।

तदा मन्मनस्त्वत्पदाम्भोरुहस्थं
> कथं निश्चलं स्यान्नमस्तेऽस्तु शंभो।।21।।

यदा दुर्निवारव्यथोऽहं शयानो

> लुठन्निःश्वसन्निःसृताव्यक्तवाणिः।

तदा जह्नुकन्याजलालंकृतं ते
> जटामण्डलं मन्मनोमन्दिरं स्यात्।।22।।

यदा पुत्रमित्रादयो मत्सकाशे

> रुदन्त्यस्य हा कीदृशीयं दशेति।

तदा देवदेवेश गौरीश शंभो
> नमस्ते शिवायेत्यजस्रं ब्रवाणि।।23।।

यदा पश्यतां मामसौ वेत्ति नास्मा

> नयं श्वास एवेति वाचो भवेयुः।

तदा भूतिभूषं भुजंगावनद्धं
> पुरारे भवन्तं स्फुटं भावयेयम्।।24।।

यदा यातनादेहसंदेहवाही

> भवेदात्मदेहे न मोहो महान्मे।

तदा काशशीतांशुसंकाशमीश
> स्मरारे वपुस्ते नमस्ते स्मराणि।।25।।

यदापारमच्छायमस्थानमद्भि

> र्जनैर्वा विहीनं गमिष्यामि मार्गम्।

तदा तं निरुन्धन्कृतान्तस्य मार्गं
> महादेव मह्यं मनोज्ञं प्रयच्छ।।26।।

यदा रौरवादि स्मरन्नेव भीत्या

> व्रजाम्यत्र मोहं महादेव घोरम्।

तदा मामहो नाथ कस्तारयिष्य
> त्यनाथं पराधीनमर्धेन्दुमौले।।27।।

यदा श्वेतपत्रायतालङ्घ्यशक्तेः

> कृतान्ताद्भयं भक्तवात्सल्यभावात्।

तदा पाहि मां पार्वतीवल्लभान्यं
> न पश्यामि पातारमेतादृशं मे।।28।।

इदानीमिदानीं मृति भवित्री

> त्यहो संततं चिन्तया पीडितोऽस्मि।

कथं नाम मा भून्मृतौ भीतिरेषा
> नमस्ते गतीनां गते नीलकण्ठ।।29।।

अमर्यादमेवाहमाबालवृद्धं

> हरन्तं कृतान्तं समीक्ष्यास्मि भीतः।

मृतौ तावकाङघ्र्यब्जदिव्यप्रसादा
> द्भवानीपते निर्भयोऽहं भवानि।।30।।

जराजन्मगर्भाधिवासादिदुःखा

> न्यसह्यानि जह्यां जगन्नाथ देव।

भवन्तं विना मे गतिर्नैव शंभो
> दयालो न जागर्ति किं वा दया ते।।31।।

शिवायेति शब्दो नमःपूर्व एष

> स्मरन्मुक्तिकृन्मृत्युहा तत्त्ववाची।

महेशान मा गान्मनस्तो वचस्तः
> सदा मह्यमेतत्प्रदानं प्रयच्छ।।32।।

त्वमप्यम्ब मां पश्य शीतांशुमौलि

> प्रिये भेषजं त्वं भवव्याधिशान्तौ।

बहुक्लेशभाजं पदाम्भोजपोते
> भवाब्धौ निमग्नं नयस्वाद्य पारम्।।33।।

अनुद्यल्ललाटाक्षिवह्निप्ररोहै

> रवामस्फुरच्चारुवामोरुशोभैः।

अनङ्गभ्रमद्भोगिभूषाविशेषै
> रचन्द्रार्धचूडैरलं दैवतैर्नः।।34।।

अकण्ठेकलङ्कादनङ्गेभुजङ्गा

> दपाणौकपालादफालेनलाक्षात्।

अमौळौशशाङ्कादवामेकलत्रा
> दहं देवमन्यं न मन्ये न मन्ये।।35।।

महादेव शंभो गिरीश त्रिशूलिं

> स्त्वयीदं समस्तं विभातीति यस्मात्।

शिवादन्यथा दैवतं नाभिजाने
> शिवोऽहं शिवोऽहं शिवोऽहं शिवोऽहम्।।36।।

यतोऽजायतेदं प्रपञ्चं विचित्रं

> स्थितिं याति यस्मिन्यदेकान्तमन्ते।

स कर्मादिहीनः स्वयंज्योतिरात्मा
> शिवोऽहं शिवोऽहं शिवोऽहं शिवोऽहम्।।37।।

किरीटे निशेशो ललाटे हुताशो

> भुजे भोगिराजो गले कालिमा च।

तनौ कामिनी यस्य तत्तुल्यदेवं
> न जाने न जाने न जाने न जाने।।38।।

अनेन स्तवेनादरादम्बिकेशं

> परां भक्तिमासाद्य यं ये नमन्ति।

मृतौ निर्भयास्ते जनास्तं भजन्ते
> हृदम्भोजमध्ये सदासीनमीशम्।।39।।

भुजंगप्रियाकल्प शंभो मयैवं

> भुजंगप्रयातेन वृत्तेन क्लृप्तम्।

नरः [स्तोत्र](/posts/dvaadshlinggstotrm/)मेतत्पठित्वोरुभक्त्या
> सुपुत्रायुरारोग्यमैश्वर्यमेति।।40।।

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ

> शिवभुजंगं संपूर्णम्।।
