# शिवकेशादिपादान्तवर्णनस्तोत्रम्

> ।।श्रीः।। ।।शिवकेशादिपादान्तवर्णनस्तोत्रम्।। देयासुर्मूर्ध्नि राजत्सरससुरसरित्पारपर्यन्तनिर्य त्प्रांशुस्तम्बाः पिशङ्गास्तुलितपरिणतारक्तशालीलता वः। दुर्वारापत्तिगर्तश्रितनिखिलजनोत्तारणे रज्जुभूता घोरा…

- **Canonical URL:** https://batukuvacha.com/posts/shivkeshaadipaadaantvrnnns/
- **Published:** 2022-04-17
- **Publisher:** बटुक उवाच (Batuk Uvacha) — https://batukuvacha.com
- **Language:** Hindi (hi), with Sanskrit passages
- **Categories:** स्तोत्र
- **Tags:** आदिशङ्कराचार्यः, शिव

_Cite as: बटुक उवाच, “शिवकेशादिपादान्तवर्णनस्तोत्रम्”, https://batukuvacha.com/posts/shivkeshaadipaadaantvrnnns/_

---
> ।।श्रीः।। \

> ।।[शिव](/posts/shivbhujngm/)केशादिपादान्तवर्णन[स्तोत्र](/posts/dvaadshlinggstotrm/)म्।।
देयासुर्मूर्ध्नि राजत्सरससुरसरित्पारपर्यन्तनिर्य

> त्प्रांशुस्तम्बाः पिशङ्गास्तुलितपरिणतारक्तशालीलता वः।

दुर्वारापत्तिगर्तश्रितनिखिलजनोत्तारणे रज्जुभूता
> घोराघोर्वीरुहालीदहनशिखिशिखाः शर्म शार्वाः कपर्दाः।।1।।

कुर्वन्निर्वाणमार्गप्रगमपरिलसद्रूप्यसोपानशङ्कां

> शक्रारीणां पुराणां त्रयविजयकृतस्पष्टरेखायमाणम्।

अव्यादव्याजमुच्चैरलिकहिमधराधित्यकान्तस्त्रिधोद्य
> ज्जाह्नव्याभं मृडानीकमितुरुडुपरुक्पाण्डरं वस्त्रिपुण्ड्रम्।।2।।

क्रुध्यद्गौरीप्रसादानतिसमयपदाङ्गुष्ठसंक्रान्तलाक्षा

> बिन्दुस्पर्धि स्मरारेः स्फटिकमणिदृषन्मग्नमाणिक्यशोभम्।

मूर्ध्न्युद्यद्दिव्यसिन्धोः पतितशफरिकाकारि वो मास्तकं स्ता
> दस्तोकापत्तिकृत्त्यै हुतवहकणिकामोक्षरूक्षं सदाक्षि।।3।।

भूत्यै दृग्भूतयोः स्याद्यदहिमहिमरुग्बिम्बयोः स्निग्धवर्णो

> दैत्यौघध्वंसशंसी स्फुट इव परिवेषावशेषो विभाति।

सर्गस्थित्यन्तवृत्तिर्मयि समुपगतेतीव निर्वृत्तगर्वं
> शर्वाणीभर्तुरुच्चैर्युगलमथ दधद्विभ्रमं तद्भ्रुवोर्वः।।4।।

युग्मे रुक्माब्जपिङ्गे ग्रह इव पिहिते द्राग्ययोः प्राग्दुहित्रा

> शैलस्य ध्वान्तनीलाम्बररचितबृहत्कञ्चुकोऽभूत्प्रपञ्चः।

ते त्रैनेत्रे पवित्रे त्रिदशवरघटामित्रजैत्रोग्रशस्त्रे
> नेत्रे नेत्रे भवेतां द्रुतमिह भवत्तामिन्द्रियाश्वान्नियन्तुम्।।5।।

चण्डीवक्त्रार्पणेच्छोस्तदनु भगवतः पाण्डुरुक्पाण्डुगण्ड

> प्रोद्यत्कण्डूं विनेतुं वितनुत इव ये रत्नकोणैर्विघृष्टिम्।

चण्डार्चिर्मण्डलाभे सततनतजनध्वान्तखण्डातिशौण्डे
> चाण्डीशे ते श्रिये स्तामधिकमवनताखण्डले कुण्डले वः।।6।।

खट्वाङ्गोदग्रपाणेः स्फुटविकटपुटो वक्त्ररन्ध्रप्रवेश

> प्रेप्सूदञ्चत्फणोरुश्वसदतिधवलाहीन्द्रशङ्कां दधानः।

युष्माकं कम्रवक्त्राम्बुरुहपरिलसत्कर्णिकाकारशोभः
> शश्वत्त्राणाय भूयादलमतिविमलोत्तुङ्गकोणः स घोणः।।7।।

क्रुध्यत्यद्धा ययोः स्वां तनुमतिलसतोर्बिम्बितां लक्षयन्ती

> भर्त्रे स्पर्धातिनिघ्ना मुहुरितरवधूशङ्कया शैलकन्या।

युष्मांस्तौ शश्वदुच्चैरबहुलदशमीशर्वरीशातिशुभ्रा
> वव्यास्तां दिव्यसिन्धोः कमितुरवनमल्लोकपालौ कपोलौ।।8।।

यो भासा भात्युपान्तस्थित इव निभृतं कौस्तुभो द्रष्टुमिच्छ

> न्सोत्थस्नेहान्नितान्तं गलगतगरलं पत्य़ुरुच्चैः पशूनाम्।

प्रोद्यत्प्रेम्णा यमार्द्रा पिबति गिरिसुता संपदः सातिरेका
> लोकाः शोणीकृतान्ता यदधरमहसा सोऽधरो वो विधत्ताम्।।9।।

अत्यर्थं राजते या वदनशशधरादुद्गलच्चारुवाणी

> पीयूषाम्भःप्रवाहप्रसरपरिलसत्फेनबिन्द्वावलीव।

देयात्सा दन्तपङ्क्तिश्िचरमिह दनुदायाददौवारिकस्य
> द्युत्या दीप्तेन्दुकुन्दच्छविरमलतरप्रोन्नताग्रा मुदं वः।।10।।

न्यक्कुर्वन्नुर्वराभृन्निभघनसमयोद्धुष्टमेघौघघोषं

> स्फूर्जद्वार्ध्युत्थितोरुध्वनितमपि परब्रह्मभूतो गभीरः।

सुव्यक्तो व्यक्तमूर्तेः प्रकटितकरणः प्राणनाथस्य सत्याः
> प्रीत्या वः संविदध्यात्फलविकलमलं जन्म नादः स नादः।।11।।

भासा यस्य त्रिलोकी लसति परिलसत्फेनबिन्द्वर्णवान्त

> र्व्यामग्नेवातिगौरस्तुलितसुरसरिद्वारिपूरप्रसारः।

पीनात्मा दन्तभाभिर्भृशमहहहकारातिभीमः सदेष्टां
> पुष्टां तुष्टिं कृषीष्ट स्फुटमिह भवतामट्टहासोऽष्टमूर्तेः।।12।।

सद्योजाताख्यमाप्यं यदुविमलमुदग्वर्ति यद्वामदेवं

> नाम्ना हेम्ना सदृक्षं जलदनिभमघोराह्वयं दक्षिणं यत्।

यद्बालार्कप्रभं तत्पुरुषनिगदितं पूर्वमीशानसंज्ञं
> यद्दिव्यं तानि शंभोर्भवदभिलषितं पञ्च दद्युर्मुखानि।।13।।

आत्मप्रेम्णो भवान्या स्वयमिव रचिताः सादरं सांवनन्या

> मष्या तिस्रः सुनीलाञ्जननिभगररेखाः समाभान्ति यस्याम्।

आकल्पानल्पभासा भृशरुचिरतरा कम्बुकल्पाम्बिकायाः
> पत्युः सात्यन्तमन्तर्विलसतु सततं मन्थरा कंधरा वः।।14।।

वक्त्रेन्दोर्दन्तलक्ष्म्याश्िचरमधरमहाकौस्तुभस्याप्युपान्ते

> सोत्थानां प्रार्थयन्यः स्थितिमचलभुवे वारयन्त्यै निवेशम्।

प्रायुङक्तेवाशिषो यः प्रतिपदममृतत्वे स्थितः कालशत्रोः
> कालं कुर्वन्गलं वो हृदयमयमलं क्षालयेत्कालकूटः।।15।।

प्रौढप्रेमाकुलाया दृढतरपरिरम्भेषु पर्वेन्दुमुख्याः

> पार्वत्याश्चारुचामीकरवलयपदैरङ्कितं कान्तिशालि।

रङ्गन्नागाङ्गदाढ्यं सततमविहितं कर्म निर्मूलयेत्त
> द्दोर्मूलं निर्मलं यद्धृदि दुरितमपास्यार्जितं धूर्जटेर्वः।।16।।

कण्ठाश्लेषार्थमाप्ता दिव इव कमितुः स्वर्गसिन्धोः प्रवाहाः

> क्रान्त्यै संसारसिन्धोः स्फटिकमणिमहासंक्रमाकारदीर्घाः।

तिर्यग्विष्कम्भभूतास्त्रिभुवनवसतेर्भिन्नदैत्येभदेहा
> बाहा वस्ता हरस्य द्रुतमिह निवहानंहसां संहरन्तु।।17।।

वक्षो दक्षद्विषोऽलं स्मरभरविनमद्दक्षजाक्षीणवक्षो

> जान्तर्निक्षिप्तशुम्भन्मलयजमिलितोद्भासि भस्मोक्षितं यत्।

क्षिप्रं तद्रूक्षचक्षुःश्रुतिगणफणरत्नौघभाभीक्ष्णशोभं
> युष्माकं शश्वदेनः स्फटिकमणिशिलामण्डलाभं क्षिणोतु।।18।।

मुक्तामुक्ते विचित्राकुलवलिलहरीजालशालिन्यवाञ्च

> न्नाभ्यावर्ते विलोलद्भुजगवरयुते कालशत्रोर्विशाले।

युष्मच्चित्तत्रिधामा प्रतिनवरुचिरे मन्दिरे कान्तिलक्ष्म्याः
> शेतां शीतांशुगौरे चिरतरमुदरक्षीरसिन्धौ सलीलम्।।19।।

वैयाघ्री यत्र कृत्तिः स्फुरति हिमगिरेर्विस्तृतोपत्यकान्तः

> सान्द्रावश्यायमिश्रा परित इव वृता नीलजीमूतमाला।

आबद्धाहीन्द्रकाञ्चीगुणमतिपृथुलं शैलजाक्रीडभूमि
> स्तद्वो निःश्रेयसे स्याज्जघनमतिघनं बालशीतांशुमौलेः।।20।।

पुष्टावष्टम्भभूतौ पृथुतरजघनस्यापि नित्यं त्रिलोक्याः

> सम्यग्वृत्तौ सुरेन्द्रद्विरदवरकरोदारकान्तिं दधानौ।

सारावूरू पुरारेः प्रसभमरिघटाघस्मरौ भस्मशुभ्रौ
> भक्तैरत्यार्द्रचित्तैरधिकमवनतौ वाञ्छितं वो विधत्ताम्।।21।।

आनन्दायेन्दुकान्तोपलरचितसमुद्गायिते ये मुनीनां

> चित्तादर्शं निधातुं विदधति चरणे ताण्डवाकुञ्चनानि।

काञ्चीभोगीन्द्रमूर्ध्नां प्रतिमुहुरुपधानायमाने क्षणं ते
> कान्ते स्तामन्तकारेर्द्युतिविजितसुधाभानुनी जानुनी वः।।22।।

मञ्जीरीभूतभोगिप्रवरगणफणामण्डलान्तर्नितान्त

> व्यादीर्घानर्घरत्नद्युतिकिसलयिते स्तूयमाने द्युसद्भिः।

बिभ्रत्यौ विभ्रमं वः स्फटिकमणिबृहद्दण्डवद्भासिते ये
> जङ्घे शङ्खेन्दुशुभ्रे भृशमिह भवतां मानसे शूलपाणेः।।23।।

अस्तोकस्तोमशस्त्रैरपचितिममलां भूरिभावोपहारैः

> कुर्वद्भिः सर्वदोच्चैः सततमभिवृतौ ब्रह्मविद्देवलाद्यैः।

सम्यक्संपूज्यमानाविह हृदि सरसीवानिशं युष्मदीये
> शर्वस्य क्रीडतां तौ प्रपदवरबृहत्कच्छपावच्छभासौ।।24।।

याः स्वस्यैकांशपातादतिबहलगलद्रक्तवक्त्रं प्रणुन्न

> प्राणं प्राक्रोशयन्प्राङ् निजमचलवरं चालयन्तं दशास्यम्।

पादाङ्गुल्यो दिशन्तु द्रुतमयुगदृशः कल्मषप्लोषकल्याः
> कल्याणं फुल्लमाल्यप्रकरविलसिता वः प्रणद्धाहिवल्लयः।।25।।

प्रह्वप्राचीनबर्हिःप्रमुखसुरवरप्रस्फुरन्मौलिसक्त

> ज्यायोरत्नोत्करोस्रैरविरतममला भूरिनीराजिता या।

प्रोदग्राग्रा प्रदेयात्ततिरिव रुचिरा तारकाणां नितान्तं
> नीलग्रीवस्य पादाम्बुरुहविलसिता सा नखाली सुखं वः।।26।।

सत्याः सत्याननेन्दावपि सविधगते ये विकासं दधाते

> स्वान्ते स्वां ते लभन्ते श्रियमिह सरसीवामरा ये दधानाः।

लोलं लोलम्बकानां कुलमिव सुधियां सेवते ये सदा स्तां
> भूत्यै भूत्यैणपाणेर्विमलतररुचस्ते पदाम्भोरुहे वः।।27।।

येषां रागादिदोषाक्षतमति यतयो यान्ति मुक्तिं प्रसादा

> द्ये वा नम्रात्ममूर्तिद्युसदृषिपरिषन्मूर्ध्नि शेषायमाणाः।

श्रीकण्ठस्यारुणोद्यच्चरणसरसिजप्रोत्थितास्ते भावाख्या
> त्पारावाराच्चिरं वो दुरितहतिकृतस्तारयेयुः परागाः।।28।।

भूम्ना यस्यास्तसीम्ना भुवनमनुसृतं यत्परं धाम धाम्नां

> साम्नामाम्नायतत्त्वं यदपि च परमं यद्गुणातीतमाद्यम्।

यच्चांहोहन्निरीहं गहनमिति मुहुः प्राहुरुच्चैर्महान्तो
> माहेशं तन्महो मे महितमहरहर्मोहरोहं निहन्तु।।29।।

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ

शिवकेशादिपादान्तवर्णनस्तोत्रम्

> संपूर्णम्।।
