# शिवपादादिकेशान्तवर्णनस्तोत्रम्

> ।।श्रीः।। ।।शिवपादादिकेशान्तवर्णनस्तोत्रम्।। कल्याणं नो विधत्तां कटकतटलसत्कल्पवाटीनिकुञ्ज क्रीडासंसक्तविद्याधरनिकरवधूगीतरुद्रापदानः। तारैर्हेरम्बनादैस्तरलितनिनदत्तारकारातिकेकी कैलासः शर्वनिर्वृत्यभिजन…

- **Canonical URL:** https://batukuvacha.com/posts/shivpaadaadikeshaantvrnnns/
- **Published:** 2022-08-15
- **Publisher:** बटुक उवाच (Batuk Uvacha) — https://batukuvacha.com
- **Language:** Hindi (hi), with Sanskrit passages
- **Categories:** स्तोत्र
- **Tags:** आदिशङ्कराचार्यः, शिव

_Cite as: बटुक उवाच, “शिवपादादिकेशान्तवर्णनस्तोत्रम्”, https://batukuvacha.com/posts/shivpaadaadikeshaantvrnnns/_

---
> ।।श्रीः।। \

> ।।[शिव](/posts/shivbhujngm/)पादादिकेशान्तवर्णन[स्तोत्र](/posts/dvaadshlinggstotrm/)म्।।
कल्याणं नो विधत्तां कटकतटलसत्कल्पवाटीनिकुञ्ज

> क्रीडासंसक्तविद्याधरनिकरवधूगीतरुद्रापदानः।

तारैर्हेरम्बनादैस्तरलितनिनदत्तारकारातिकेकी
> कैलासः शर्वनिर्वृत्यभिजनकपदः सर्वदा पर्वतेन्द्रः।।1।।

यस्य प्राहुः स्वरूपं सकलदिविषदां सारसर्वस्वयोगं

> यस्येषुः शार्ङ्गधन्वा समजनि जगतां रक्षणे जागरूकः।

मौर्वी दर्वीकराणामपि च परिबृढः पूस्त्रयी सा च लक्ष्यं
> सोऽव्यादव्याजमस्मानशिवभिदनिशं नाकिनां श्रीपिनाकः।।2।।

आतङ्कावेगहारी सकलदिविषदामाङ्घ्रिपद्माश्रयाणां

> मातङ्गाद्युग्रदैत्यप्रकरतनुगलद्रक्तधाराक्तधारः।

क्रूरः सूरायुतानामपि च परिभवं स्वीयभासा वितन्व
> न्घोराकारः कुठारो दृढतरदुरिताख्याटवीं पाटयेन्नः।।3।।

कालारातेः कराग्रे कृतवसतिरुरःशाणशातो रिपूणां

> काले काले कुलाद्रिप्रवरतनयया कल्पितस्नेहलेपः।

पायान्नः पावकार्चिःप्रसरसखमुखः पापहन्ता नितान्तं
> शूलः श्रीपादसेवाभजनरसजुषां पालनैकान्तशीलः।।4।।

देवस्याङ्काश्रयायाः कुलगिरिदुहितुर्नेत्रकोणप्रचार

> प्रस्तारानत्युदारान्पिपठिषुरिव यो नित्यमत्यादरेण।

आधत्ते भङ्गितुङ्गैरनिशमवयवैरन्तरङ्गं समोदं
> सोमापीडस्य सोऽयं प्रदिशतु कुशलं पाणिरङ्गः कुरङ्गः।।5।।

कण्ठप्रान्तावसज्जत्कनकमयमहाघण्टिकाघोरघोषैः

> कण्ठारावैरकुण्ठैरपि भरितजगच्चक्रवालान्तरालः।

चण्डः प्रोद्दण्डश्रृङ्गः ककुदकबलितोत्तुङ्गकैलासश्रृङ्गः
> कण्ठेकालस्य वाहः शमयतु शमलं शाश्वतः शाक्वरेन्द्रः।।6।।

निर्यद्दानाम्बुधारापरिमलतरलीभूतरोलम्बपाली

> झंकारैः शंकराद्रेः शिखरशतदरीः पूरयन्भूरिघोषैः।

शार्वः सौवर्णशैलप्रतिमपृथुवपुः सर्वविघ्नापहर्ता
> शर्वाण्याः पूर्वसूनुः स भवतु भवतां स्वस्तिदो हस्तिवक्त्रः।।7।।

यः पुण्यैर्देवतानां समजनि शिवयोः श्लाघ्यवीर्यैकमत्या

> द्यन्नाम्नि श्रूयमाणे दितिजभटघटा भीतिभारं भजन्ते।

भूयात्सोऽयं विभूत्यै निशितशरशिखापाटितक्रौञ्चशैलः
> संसारागाधकूपोदरपतितसमुत्तारकस्तारकारिः।।8।।

आरूढः प्रौढवेगप्रविजितपवनं तुङ्गतुङ्गं तुरङ्गं

> चेलं नीलं वसानः करतलविलसत्काण्डकोदण्डदण्डः।

रागद्वेषादिनानाविधमृगपटलीभीतिकृद्भूतभर्ता
> कुर्वन्नाखेटलीलां परिलसतु मनःकानने मामकीने।।9।।

अम्भोजाभ्यां च रम्भारथचरणलताद्वन्द्वकुम्भीन्द्रकुम्भै

> र्बिम्बेनेन्दोश्च कम्बोरुपरि विलसता विद्रुमेणोत्पलाभ्याम्।

अम्भोदेनापि संभावितमुपजनिताडम्बरं शम्बरारेः
> शंभोः संभोगयोग्यं किमपि धनमिदं संभवेत्संपदे नः।।10।।

वेणीसौभाग्यविस्मापिततपनसुताचारुवेणीविलासा

> न्वाणीनिर्धूतवाणीकरतलविधृतोदारवीणाविरावान्।

एणीनेत्रान्तभङ्गीनिरसननिपुणापाङ्गकोणानुपासे
> शोणान्प्राणानुदूढप्रतिनवसुषमाकन्दलानिन्दुमौलेः।।11।।

नृत्तारम्भेषु हस्ताहतमुरजधिमिद्धिकृतैरत्युदारै

> श्िचत्तानन्दं विधत्ते सदसि भगवतः संततं यः स नन्दी।

चण्डीशाद्यास्तथान्ये चतुरगुणगणप्रीणितस्वामिसत्का
> रोत्कर्षोद्यत्प्रसादाः प्रमथपरिबृढाः पान्तु संतोषिणो नः।।12।।

मुक्तामाणिक्यजालैः परिकलितमहासालमालोकनीयं

> प्रत्युप्तानर्घरत्नैर्दिशि दिशि भवनैः कल्पितैर्दिक्पतीनाम्।

उद्यानैरद्रिकन्यापरिजनवनितामाननीयैः परीतं
> हृद्यं हृद्यस्तु नित्यं मम भुवनपतेर्धाम सोमार्धमौलेः।।13।।

स्तम्भैर्जम्भारिरत्नप्रवरविरचितैः संभृतोपान्तभागं

> शुम्भत्सोपानमार्गं शुचिमणिनिचयैर्गुम्भितानल्पशिल्पम्।

कुम्भैः संपूर्णशोभं शिरसि सुघटितैः शातकुम्भैरपङ्कैः
> शंभोः संभावनीयं सकलमुनिजनैः स्वस्तिदं स्यात्सदो नः।।14।।

न्यस्तो मध्ये सभायाः परिसरविलसत्पादपीठाभिरामो

> हृद्यः पादैश्चतुर्भिः कनकमणिमयैरुच्चकैरुज्ज्वलात्मा।

वासोरत्नेन केनाप्यधिकमृदुतरेणास्तृतो विस्तृतश्रीः
> पीठः पीडाभरं नः शमयतु शिवयोः स्वैरसंवासयोग्यः।।15।।

आसीनस्याधिपीठं त्रिजगदधिपतेरङ्घ्रिपीठानुषक्तौ

> पाथोजाभोगभाजौ परिमृदुलतलोल्लासिपद्मादिरेखौ।

पातां पादावुभौ तौ नमदमरकिरीटोल्लसच्चारुहीर
> श्रेणीशोणायमानोन्नतनखदशकोद्भासमानौ समानौ।।16।।

यन्नादो [वेद](/posts/ythemaan-vaacn-klyaanniim/)वाचां निगदति निखिलं लक्षणं पक्षिकेतु

> र्लक्ष्मीसंभोगसौख्यं विरचयति ययोश्चापरे रूपभेदे।

शंभोः संभावनीये पदकमलसमासङ्गतस्तुङ्गशोभे
> माङ्गल्यं नः समग्रं सकलसुखकरे नूपुरे पूरयेताम्।।17।।

अङ्गे शृङ्गारयोनेः सपदि शलभतां नेत्रवह्नौ प्रयाते

> शत्रोरुद्धृत्य तस्मादिषुधियुगमधो न्यस्तमग्रे किमेतत्।

शङ्कामित्थं नतानाममरपरिषदामन्तरङ्कूरयत्त
> त्संघातं चारु जङ्घायुगमखिलपतेरंहसां संहरेन्नः।।18।।

जानुद्वन्द्वेन मीनध्वजनृवरसमुद्गोपमानेन साकं

> राजन्तौ राजरम्भाकरिकरकनकस्तम्भसंभावनीयौ।

ऊरू गौरीकराम्भोरुहसरससमामर्दनानन्दभाजौ
> चारू दूरीक्रियास्तां दुरितमुपचितं जन्मजन्मान्तरे नः।।19।।

आमुक्तानर्घरत्नप्रकरकरपरिष्वक्तकल्याणकाञ्ची

> दाम्ना बद्धेन दुग्धद्युतिनिचयमुषा चीनपट्टाम्बरेण।

संवीते शैलकन्यासुचरितपरिपाकायमाणे नितम्बे
> नित्यं नर्नर्तु चित्तं मम निखिलजगत्स्वामिनः सोममौलेः।।20।।

संध्याकालानुरज्यद्दिनकरसरुचा कालधौतेन गाढं

> व्यानद्धः स्निग्धमुग्धः सरसमुदरबन्धेन वीतोपमेन।

उद्दीप्रैः स्वप्रकाशैरुपचितमहिमा मन्मथारेरुदारो
> मध्यो मिथ्यार्थसध्ञ्य(?)ङ्मम दिशतु सदा संगतिं मङ्गलानाम्।।21।।

नाभीचक्रालवालान्नवनवसुषमादोहदश्रीपरीता

> दुद्गच्छन्ती पुरस्तादुदरपथमतिक्रम्य वक्षः प्रयान्ती।

श्यामा कामागमार्थप्रकथनलिपिवद्भासते या निकामं
> सा मा सोमार्धमौलेः सुखयतु सततं रोमवल्लीमतल्ली।।22।।

आश्लेषेष्वद्रिजायाः कठिनकुचतटीलिप्तकाश्मीरपङ्क

व्यासङ्गादुद्यदर्कद्युतिभिरुपचितस्पर्धमुद्दामहृद्यम्।(?)

दक्षारातेरुदूढप्रतिनवमणिमालावलीभासमानं
> वक्षो विक्षोभिताघं सततनतिजुषां रक्षतादक्षतं नः।।23।।

वामाङ्के विस्फुरन्त्या करतलविलसच्चारुरक्तोत्पलायाः

> कान्ताया वामवक्षोरुहभरशिखरोन्मर्दनव्यग्रमेकम्।

अन्यांस्त्रीनप्युदारान्वरपरशुमृगालंकृतानिन्दुमौले
> र्बाहूनाबद्धहेमाङ्गदमणिकटकानन्तरालोकयामः।।24।।

संभ्रान्तायाः शिवायाः पतिविलयभिया सर्वलोकोपतापा

> त्संविग्नस्यापि विष्णोः सरभसमुभयोर्वारणप्रेरणाभ्याम्।

मध्ये त्रैशङ्कवीयामनुभवति दशां यत्र हालाहलोष्मा
> सोऽयं सर्वापदां नः शमयतु निचयं नीलकण्ठस्य कण्ठः।।25।।

हृद्यैरद्रीन्द्रकन्यामृदुदशनपदैर्मुद्रितो विद्रुमश्री

> रुद्द्योतन्त्या नितान्तं धवलधवलया मिश्रितो दन्तकान्त्या।

मुक्तामाणिक्यजालव्यतिकरसदृशा तेजसा भासमानः
> सद्योजातस्य दद्यादधरमणिरसौ संपदां संचयं नः।।26।।

कर्णालंकारनानामणिनिकररुचां संचयैरञ्चितायां

> वर्ण्यायां स्वर्णपद्मोदरपरिविलसत्कर्णिकासंनिभायाम्।

पद्धत्यां प्राणवायोः प्रणतजनहृदम्भोजवासस्य शंभो
> र्नित्यं नश्िचत्तमेतद्विरचयतु सुखेनासिकां नासिकायाम्।।27।।

अत्यन्तं भासमाने रुचिरतररुचां संगमात्सन्मणीना

> मुद्यच्चण्डांशुधामप्रसरनिरसनस्पष्टदृष्टापदाने।

भूयास्तां भूतये नः करिवरजयिनः कर्णपाशावलम्बे
> भक्तालीभालसज्जज्जनिमरणलिपेः कुण्डले कुण्डले ते।।28।।

याभ्यां कालव्यवस्था भवति तनुमतां यो मुखं देवतानां

> येषामाहुः स्वरूपं जगति मुनिवरा देवतानां त्रयीं ताम्।

रुद्राणीवक्त्रपङ्केरुहसततविहारोत्सुकेन्दिन्दिरेभ्य
> स्तेभ्यस्त्रिभ्यः प्रणामाञ्जलिमुपरचये त्रीक्षणस्येक्षणेभ्यः।।29।।

वामं वामाङ्कगाया वदनसरसिजे व्यावलद्वल्लभाया

> व्यानम्रेष्वन्यदन्यत्पुनरलिकभवं वीतनिःशेषरौक्ष्यम्।

भूयो भूयोऽपि मोदान्निपतदतिदयाशीतलं चूतबाणे
> दक्षारेरीक्षणानां त्रयमपहरतादाशु तापत्रयं नः।।30।

यस्मिन्नर्धेन्दुमुग्धद्युतिनिचयतिरस्कारनिस्तन्द्रकान्तौ

> काश्मीरक्षोदसंकल्पितमिव रुचिरं चित्रकं भाति नेत्रम्।

तस्मिन्नुल्लीलचिल्लीनटवरतरुणीलास्यरङ्गायमाणे
> कालारेः फालदेशे विहरतु हृदयं वीतचिन्तान्तरं नः।।31।।

स्वामिन्गङ्गामिवाङ्गीकुरु तव शिरसा मामपीत्यर्थयन्तीं

> धन्यां कन्यां खरांशोः शिरसि वहति किं न्वेष कारुण्यशाली।

इत्थं शङ्कां जनानां जनयदतिघनं कैशिकं कालमेघ
> च्छायं भूयादुदारं त्रिपुरविजयिनः श्रेयसे भूयसे नः।।32।।

शृङ्गाराकल्पयोग्यैः शिखरिवरसुतासत्सखीहस्तलूनैः

> सूनैराबद्धमालावलिपरिविलसत्सौरभाकृष्टभृङ्गम्।

तुङ्गं माणिक्यकान्त्या परिहसितसुरावासशैलेन्द्रश्रृङ्गं
> संघं नः संकटानां विघटयतु सदा काङ्कटीकं किरीटम्।।33।।

वक्राकारः कलङ्की जडतनुरहमप्यङ्घ्रिसेवानुभावा

> दुत्तंसत्वं प्रयातः सुलभतरघृणास्यन्दिनश्चन्द्रमौलेः।

तत्सेवन्तां जनौघाः शिवमिति निजयावस्थयैव ब्रुवाणं
> वन्दे देवस्य शंभोर्मुकुटसुघटितं मुग्धपीयूषभानुम्।।34।।

कान्त्या संफुल्लमल्लीकुसुमधवलया व्याप्य विश्वं विराज

> न्वृत्ताकारो वितन्वन्मुहुरपि च परां निर्वृतिं पादभाजाम्।

सानन्दं नन्दिदोष्णा मणिकटकवता वाह्यमानः पुरारेः
> श्वेतच्छत्राख्यशीतद्युतिरपहरतादापदस्तापदा नः।।35।।

दिव्याकल्पोज्ज्वलानां शिवगिरिसुतयोः पाश्र्वयोराश्रितानां

> रुद्राणीसत्सखीनां मदतरलकटाक्षाञ्चलैरञ्चितानाम्।

उद्वेल्लद्बाहुवल्लीविलसनसमये चामरान्दोलनीना
> मुद्भूतः कङ्कणालीवलयकलकलो वारयेदापदो नः।।36।।

स्वर्गौकःसुन्दरीणां सुललितवपुषां स्वामिसेवापराणां

> वल्गद्भूषाणि वक्राम्बुजपरिविगलन्मुग्धगीतामृतानि।

नित्यं नृत्तान्युपासे भुजविधुतिपदन्यासभावावलोक
> प्रत्युद्यत्प्रीतिमाद्यत्प्रमथनटनटीदत्तसंभावनानि।।37।।

स्थानप्राप्त्या स्वराणां किमपि विशदतां व्यञ्जयन्मञ्जुवीणा

> स्वानावच्छिन्नतालक्रमममृतमिवास्वाद्यमानं शिवाभ्याम्।

नानारागातिहृद्यं नवरसमधुरस्तोत्रजातानुविद्धं
> गानं वीणामहर्षेः कलमतिललितं कर्णपूरायतां नः।।38।।

चेतो जातप्रमोदं सपदि विदधती प्राणिनां वाणिनीनां

> पाणिद्वन्द्वाग्रजाग्रत्सुललितरणितस्वर्णतालानुकूला।

स्वीयारावेण पाथोधररवपटुना नादयन्ती मयूरीं
> मायूरी मन्दभावं मणिमुरजभवा मार्जना मार्जयेन्नः।।39।।

देवेभ्यो दानवेभ्यः पितृमुनिपरिषत्सिद्धविद्याधरेभ्यः

> साध्येभ्यश्चारणेभ्यो मनुजपशुपतज्जातिकीटादिकेभ्यः।

श्रीकैलासप्ररूढास्तृणविटपिमुखाश्चापि ये सन्ति तेभ्यः
> सर्वेभ्यो निर्विचारं नतिमुपरचये शर्वपादाश्रयेभ्यः।।40।।

ध्यायन्नित्थं प्रभाते प्रतिदिवसमिदं स्तोत्ररत्नं पठेद्यः

> किं वा ब्रूमस्तदीयं सुचरितमथवा कीर्तयामः समासात्।

संपज्जातं समग्रं सदसि बहुमतिं सर्वलोकप्रियत्वं
> संप्राप्यायुःशतान्ते पदमयति परब्रह्मणो मन्मथारेः।।41।।

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ

शिवपादादिकेशान्तवर्णनस्तोत्रम्

> संपूर्णम्।।
