# श्री षोडश बाहु नृसिंह अष्टकम

> #### ॥ श्रीषोडशबाहुनृसिंहाष्टकम् ॥ भूखण्डं वारणाण्डं परवरविरटं डंपडंपोरुडंपं, डिं डिं डिं डिं डिडिम्बं दहमपि दहमैः झम्पझम्पैश्चझम्पैः । **तुल्यास्तुल्यास्तु तुल्याः धुमधुमधुमकैः कुङ्कुमाङ्कैः …

- **Canonical URL:** https://batukuvacha.com/posts/shrii-ssoddsh-baahu-nrsinh-ass/
- **Published:** 2024-02-19
- **Publisher:** बटुक उवाच (Batuk Uvacha) — https://batukuvacha.com
- **Language:** Hindi (hi), with Sanskrit passages
- **Categories:** स्तोत्र
- **Tags:** नृसिंह

_Cite as: बटुक उवाच, “श्री षोडश बाहु नृसिंह अष्टकम”, https://batukuvacha.com/posts/shrii-ssoddsh-baahu-nrsinh-ass/_

---
#### **॥ श्रीषोडशबाहुनृसिंहाष्टकम् ॥**

**भूखण्डं वारणाण्डं परवरविरटं डंपडंपोरुडंपं, डिं डिं डिं डिं डिडिम्बं दहमपि दहमैः झम्पझम्पैश्चझम्पैः ।**

**तुल्यास्तुल्यास्तु तुल्याः धुमधुमधुमकैः कुङ्कुमाङ्कैः कुमाङ्कैः, एतत्ते पूर्णयुक्तमहरहकरहः पातु मां नारसिंहः ॥ १॥**

**भूभृद्भूभृद्भुजङ्गं प्रलयरववरं प्रज्वलद्ज्वालमालं, खर्जर्जं खर्जदुर्जं खिखचखचखचित्खर्जदुर्जर्जयन्तं ।**

**भूभागं भोगभागं गगगगगगनं गर्दमर्त्युग्रगण्डं, स्वच्छं पुच्छं स्वगच्छं स्वजनजननुतः पातु मां नारसिंहः ॥ २॥**

**एनाभ्रं गर्जमानं लघुलघुमकरो बालचन्द्रार्कदंष्ट्रो, हेमाम्भोजं सरोजं जटजटजटिलो जाड्यमानस्तुभीतिः ।**

**दन्तानां बाधमानां खगटखगटवो भोजजानुस्सुरेन्द्रो, निष्प्रत्यूहं सराजा गहगहगहतः पातु मां नारसिंहः ॥ ३॥**

**शङ्खं चक्रं च चापं परशुमशमिषुं शूलपाशाङ्कुशास्त्रं, बिभ्रन्तं वज्रखेटं हलमुसलगदाकुन्तमत्युग्रदंष्ट्रं ।**

**ज्वालाकेशं त्रिनेत्रं ज्वलदनलनिभं हारकेयूरभूषं, वन्दे प्रत्येकरूपं परपदनिवसः पातु मां नारसिंहः ॥ ४॥**

**पादद्वन्द्वं धरित्रीकटिविपुलतरो मेरुमध्यूढ्वमूरुं, नाभिं ब्रह्माण्डसिन्धुः हृदयमपि भवो भूतविद्वत्समेतः ।**

**दुश्चक्राङ्कं स्वबाहुं कुलिशनखमुखं चन्द्रसूर्याग्निनेत्रं, वक्त्रं वह्निस्सुविद्युत्सुरगणविजयः पातु मां नारसिंहः ॥ ५॥**

**नासाग्रं पीनगण्डं परबलमथनं बद्धकेयूरहारं, रौद्रं दंष्ट्राकरालं अमितगुणगणं कोटिसूर्याग्निनेत्रं ।**

**गाम्भीर्यं पिङ्गलाक्षं भ्रुकुटितविमुखं षोडशाधार्धबाहुं, वन्दे भीमाट्टहासं त्रिभुवनविजयः पातु मां नारसिंहः ॥ ६॥**

**के के नृसिंहाष्टके नरवरसदृशं देवभीत्वं गृहीत्वा, देवन्द्यो विप्रदण्डं प्रतिवचन पयायाम्यनप्रत्यनैषीः ।**

**शापं चापं च खड्गं प्रहसितवदनं चक्रचक्रीचकेन, ओमित्ये दैत्यनादं प्रकचविविदुषा पातु मां नारसिंहः ॥ ७॥**

**झं झं झं झं झकारं झषझषझषितं जानुदेशं झकारं, हुं हुं हुं हुं हकारं हरित कहहसा यं दिशे वं वकारं ।**

**वं वं वं वं वकारं वदनदलिततं वामपक्षं सुपक्षं, लं लं लं लं लकारं लघुवणविजयः पातु मां नारसिंहः ॥ ८॥**

**भूतप्रेतपिशाचयक्षगणशः देशान्तरोच्चाटना, चोरव्याधिमहज्ज्वरं भयहरं शत्रुक्षयं निश्चयं ।**

**सन्ध्याकाले जपतमष्टकमिदं सद्भक्तिपूर्वादिभिः, प्रह्लादेव वरो वरस्तु जयिता सत्पूजितां भूतये ॥ ९॥**

**॥ इति श्रीविजयीन्द्रयतिकृतं श्रीषोडशबाहुनृसिंहाष्टकं सम्पूर्णं ॥**
