# श्रीदक्षिणामूर्तिवर्णमालास्तोत्रम्

> ।।श्रीः।। ।।श्रीदक्षिणामूर्तिवर्णमालास्तोत्रम्।। मित्येतद्यस्य बुधैर्नाम गृहीतं यद्भासेदं भाति समस्तं वियदादि। यस्याज्ञातः स्वस्वपदस्था विधिमुख्या स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि।।1।। नम्राङ्गाणा…

- **Canonical URL:** https://batukuvacha.com/posts/shriidkssinnaamuurtivrnnm/
- **Published:** 2022-08-01
- **Publisher:** बटुक उवाच (Batuk Uvacha) — https://batukuvacha.com
- **Language:** Hindi (hi), with Sanskrit passages
- **Categories:** स्तोत्र
- **Tags:** आदिशङ्कराचार्यः, शिव

_Cite as: बटुक उवाच, “श्रीदक्षिणामूर्तिवर्णमालास्तोत्रम्”, https://batukuvacha.com/posts/shriidkssinnaamuurtivrnnm/_

---
> ।।श्रीः।। \

> ।।श्रीदक्षिणामूर्तिवर्णमाला[स्तोत्र](/posts/dvaadshlinggstotrm/)म्।।
मित्येतद्यस्य बुधैर्नाम गृहीतं

> यद्भासेदं भाति समस्तं वियदादि।

यस्याज्ञातः स्वस्वपदस्था विधिमुख्या
> स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि।।1।।

नम्राङ्गाणां भक्तिमतां यः पुरुषार्था

> न्दत्वा क्षिप्रं हन्ति च तत्सर्वविपत्तीः।

पादाम्भोजाधस्तनितापस्मृतिमीशं
> तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि।।2।।

मोहध्वस्त्यै वैणिकवैयासिकिमुख्याः

> संविन्मुद्रापुस्तकवीणाक्षगुणान्यम्।

हस्ताम्भोजैर्बिभ्रतमाराधितवन्त
> स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि।।3।।

भद्रारूढं भद्रदमाराधयितृ़णां

> भक्तिश्रद्धापूर्वकमीशं प्रणमन्ति।

आदित्या यं वाञ्छितसिद्ध्यै करुणाब्धिं
> तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि।।4।।

गर्भान्तःस्थाः प्राणिन एते भवपाश

> च्छेदे दक्षं निश्िचतवन्तः शरणं यम्।

आराध्याङ्घ्रिप्रस्फुरदम्भोरुहयुग्मं
> तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि।।5।।

वक्त्रं धन्याः संसृतिवार्धेरतिमात्रा

> द्भीताः सन्तः पूर्णशशाङ्कद्युति यस्य।

सेवन्तेऽध्यासीनमनन्तं वटमूलं
> तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि।।6।।

तेजःस्तोमैरङ्गदसंघट्टितभास्व

> न्माणिक्योत्थैर्भासितविश्वो रुचिरैर्यः।

तेजोमूर्तिं खानिलतेजःप्रमुखाब्धिं
> तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि।।7।।

दध्याज्यादिद्रव्यककर्माण्यखिलानि

> त्यक्त्वा काङ्क्षां कर्मफलेष्वत्र करोति।

यज्जिज्ञासां रूपफलार्थी क्षितिदेव
> स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि।।8।।

क्षिप्रं लोके यं भजमानः पृथुपुण्यः

प्रध्वस्ताधिः प्रोज्झितसंसृत्यखिलार्तिः। (?)

प्रत्यग्भूतं ब्रह्म परं सन्रमते य
> स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि।।9।।

णानेत्येवं यन्मनुमध्यस्थितवर्णा

> न्भक्ताः काले वर्णगृहीत्यै प्रजपन्तः।

मोदन्ते संप्राप्तसमस्तश्रुतितन्त्रा
> स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि।।10।।

मूर्तिश्छायानिर्जितमन्दाकिनिकुन्द

> प्रालेयाम्भोराशिसुधाभूतिसुरेभा।

यस्याभ्राभा हासविधौ दक्षशिरोधि
> स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि।।11।।

तप्तस्वर्णच्छायजटाजूटकटाह

> प्रोद्यद्वीचीवल्लिविराजत्सुरसिन्धुम्।

नित्यं सूक्ष्मं नित्यनिरस्ताखिलदोषं
> तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि।।12।।

येन ज्ञातेनैव समस्तं विदितं स्या

> द्यस्मादन्यद्वस्तु जगत्यां शशश्रृङ्गम्।

यं प्राप्तानां नास्ति परं प्राप्यमनादिं
> तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि।।13।।

मत्तो मारो यस्य ललाटाक्षिभवाग्नि

> स्फूर्जत्कीलप्रोषितभस्मीकृतदेहः।

तद्भस्मासीद्यस्य सुजातः पटवास
> स्तं प्रत्य़ञ्चं दक्षिणवक्त्रं कलयामि।।14।।

ह्यम्भोराशौ संसृतिरुपे लुठतां त

> त्पारं गन्तुं यत्पदभक्तिर्दृढनौका।

सर्वाराध्यं सर्वगमानन्दपयोधिं
> तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि।।15।।

मेधावी स्यादिन्दुवतंसं धृतवीणं

> कर्पूराभं पुस्तकहस्तं कमलाक्षम्।

चित्ते ध्यायन्यस्य वपुर्द्राङ्निमिषार्धं
> तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि।।16।।

धाम्नां धाम प्रौढरुचीनां परमं य

> त्सूर्यादीनां यस्य स हेतुर्जगदादेः।

एतावान्यो यस्य न सर्वेश्वरमीड्यं
> तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि।।17।।

प्रत्याहारप्राणनिरोधादिसमर्थै

> र्भक्तैर्दान्तैः संयतचित्तैर्यतमानैः।

स्वात्मत्वेन ज्ञायत एव त्वरया य
> स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि।।18।।

ज्ञांशीभूतान्प्राणिन एतान्फलदाता

> चित्तान्तःस्थः प्रेरयति स्वे सकलेऽपि।

कृत्ये देवः प्राक्तनकर्मानुसरः सं
> स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि।।19।।

प्रज्ञामात्रं प्रापितसंबिन्निजभक्तं

> प्राणाक्षादेः प्रेरयितारं प्रणवार्थम्।

प्राहुः प्राज्ञा यं विदितानुश्रवतत्त्वा
> स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि।।20।।

यस्यांज्ञानादेव नृणां संसृतिबोधो

> यस्य ज्ञानादेव विमोक्षो भवतीति।

स्पष्टं ब्रूते [वेद](/posts/ythemaan-vaacn-klyaanniim/)शिरो देशिकमाद्यं
> तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि।।21।।

छन्नेऽविद्यारूपपटेनैव च विश्वं

> यत्राध्यस्तं जीवपरेशत्वमपीदम्।

भानोर्भानुष्वम्बुवदस्ताखिलभेदं
> तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि।।22।।

स्वापस्वप्नौ जाग्रदवस्थापि न यत्र

> प्राणश्चेतः सर्वगतो यः सकलात्मा।

कूटस्थो यः केवलसच्चित्सुखरूप
> स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि।।23।।

हा हेत्येवं विस्मयमीयुर्मुनिमुख्या

> ज्ञाते यस्मिन्स्वात्मतयानात्मविमोहः।

प्रत्यग्भूते ब्रह्मणि यातः कथमित्थं
> तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि।।24।।

यैषा रम्यैर्मत्तमयूराभिधवृत्तै

> रादौ क्लृप्ता यन्मनुवर्णैर्मुनिभङ्गी।

तामेवैतां दक्षिणवक्त्रः कृपयासा
> वूरीकुर्याद्देशिकसम्राट् परमात्मा।।25।।

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ

श्रीदक्षिणामूर्तिवर्णमालास्तोत्रं

> संपूर्णम्।।
