# श्रीदक्षिणामूर्त्यष्टकम्

> ।।श्रीः।। ।।श्रीदक्षिणामूर्त्यष्टकम्।। विश्वं दर्पणदृश्यमाननगरीतुल्यं निजान्तर्गतं पश्यन्नात्मनि मायया बहिरिवोद्भूतं यथा निद्रया। यः साक्षात्कुरुते प्रबोधसमये स्वात्मानमेवाद्वयं तस्मै श्रीगुरुमूर्तये …

- **Canonical URL:** https://batukuvacha.com/posts/shriidkssinnaamuurtyssttk/
- **Published:** 2022-07-25
- **Publisher:** बटुक उवाच (Batuk Uvacha) — https://batukuvacha.com
- **Language:** Hindi (hi), with Sanskrit passages
- **Categories:** स्तोत्र
- **Tags:** आदिशङ्कराचार्यः, शिव

_Cite as: बटुक उवाच, “श्रीदक्षिणामूर्त्यष्टकम्”, https://batukuvacha.com/posts/shriidkssinnaamuurtyssttk/_

---
> ।।श्रीः।। \

> ।।श्रीदक्षिणामूर्त्यष्टकम्।।
विश्वं दर्पणदृश्यमाननगरीतुल्यं निजान्तर्गतं

> पश्यन्नात्मनि मायया बहिरिवोद्भूतं यथा निद्रया।

यः साक्षात्कुरुते प्रबोधसमये स्वात्मानमेवाद्वयं
> तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये।।1।।

बीजस्यान्तरिवाङ्कुरो जगदिदं प्राङ्निर्विकल्पं पुन

> र्मायाकल्पितदेशकालकलनावैचित्र्यचित्रीकृतम्।

मायावीव विजृम्भयत्यपि महायोगीव यः स्वेच्छया
> तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये।।2।।

यस्यैव स्फुरणं सदात्मकमसत्कल्पार्थगं भासते

> साक्षात्तत्त्वमसीति [वेद](/posts/ythemaan-vaacn-klyaanniim/)वचसा यो बोधयत्याश्रितान्।

यत्साक्षात्करणाद्भवेन्न पुनरावृत्तिर्भवाम्भोनिधौ
> तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये।।3।।

नानाच्छिद्रघटोदरस्थितमहादीपप्रभाभास्वरं

> ज्ञानं यस्य तु चक्षुरादिकरणद्वारा बहिः स्पन्दते।

जानामीति तमेव भान्तमनुभात्येतत्समस्तं जग
> त्तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये।।4।।

देहं प्राणमपीन्द्रियाण्यपि चलां बुद्धिं च शून्यं विदुः

> स्त्रीबालान्धजडोपमास्त्वहमिति भ्रान्ता भृशं वादिनः।

मायाशक्तिविलासकल्पितमहाव्यामोहसंहारिणे
> तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये।।5।।

राहुग्रस्तदिवाकरेन्दुसदृशो मायासमाच्छादना

> त्सन्मात्रः करणोपसंहरणतो योऽभूत्सुषुप्तः पुमान्।

प्रागस्वाप्समिति प्रबोधसमये यः प्रत्यभिज्ञायते
> तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये।।6।।

बाल्यादिष्वपि जाग्रदादिषु तथा सर्वास्ववस्थास्वपि

> व्यावृत्तास्वनुवर्तमानमहमित्यन्तः स्फुरन्तं सदा।

स्वात्मानं प्रकटीकरोति भजतां यो मुद्रया भद्रया
> तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये।।7।।

विश्वं पश्यति कार्यकारणतया स्वस्वामिसंबन्धतः

> शिष्याचार्यतया तथैव पितृपुत्राद्यात्मना भेदतः।

स्वप्ने जाग्रति वा य एष पुरुषो मायापरिभ्रामित
> स्तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये।।8।।

भूरम्भांस्यनलोऽनिलोऽम्बरमहर्नाथो हिमांशुः पुमा

> नित्याभाति चराचरात्मकमिदं यस्यैव मूर्त्यष्टकम्।

नान्यत्किंचन विद्यते विमृशतां यस्मात्परस्माद्विभो
> स्तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये।।9।।

सर्वात्मत्वमिति स्फुटीकृतमिदं यस्मादमुष्मिंस्तवे

> तेनास्य श्रवणात्तदर्थमननाद्ध्यायानाच्च संकीर्तनात्।

सर्वात्मत्वमहाविभूतिसहितं स्यादीश्वरत्वं स्वतः
> सिध्येत्तत्पुनरष्टधा परिणतं चैश्वर्यमव्याहतम्।।10।।

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ

> श्रीदक्षिणामूर्त्यष्टकम् संपूर्णम्।।
