# शिवानन्दलहरी

> ।।श्रीः।। ।।शिवानन्दलहरी।। कलाभ्यां चूडालंकृतशशिकलाभ्यां निजतपः फलाभ्यां भक्तेषु प्रकटितफलाभ्यां भवतु मे। शिवाभ्यामस्तोकत्रिभुवनशिवाभ्यां हृदि पुन र्भवाभ्यामानन्दस्फुरदनुभवाभ्यां नतिरियम्।।1।। गलन्ती …

- **Canonical URL:** https://batukuvacha.com/posts/shvnndlhr/
- **Published:** 2022-08-08
- **Publisher:** बटुक उवाच (Batuk Uvacha) — https://batukuvacha.com
- **Language:** Hindi (hi), with Sanskrit passages
- **Categories:** स्तोत्र
- **Tags:** आदिशङ्कराचार्यः, शिव

_Cite as: बटुक उवाच, “शिवानन्दलहरी”, https://batukuvacha.com/posts/shvnndlhr/_

---
> ।।श्रीः।। \

> ।।[शिव](/posts/shivbhujngm/)ानन्दलहरी।।
कलाभ्यां चूडालंकृतशशिकलाभ्यां निजतपः

> फलाभ्यां भक्तेषु प्रकटितफलाभ्यां भवतु मे।

शिवाभ्यामस्तोकत्रिभुवनशिवाभ्यां हृदि पुन
> र्भवाभ्यामानन्दस्फुरदनुभवाभ्यां नतिरियम्।।1।।

गलन्ती शंभो त्वच्चरितसरितः किल्बिषरजो

> दलन्ती धीकुल्यासरणिषु पतन्ती विजयताम्।

दिशन्ती संसारभ्रमणपरितापोपशमनं
> वसन्ती मच्चेतोह्रदभुवि शिवानन्दलहरी।।2।।

त्रयी[वेद](/posts/ythemaan-vaacn-klyaanniim/)्यं हृद्यं त्रिपुरहरमाद्यं त्रिनयनं

> जटाभारोदारं चलदुरगहारं मृगधरम्।

महादेवं देवं मयि सदयभावं पशुपतिं
> चिदालम्बं साम्बं शिवमतिविडम्बं हृदि भजे।।3।।

सहस्रं वर्तन्ते जगति विबुधाः क्षुद्रफलदा

> न मन्ये स्वप्ने वा तदनुसरणं तत्कृतफलम्।

हरिब्रह्मादीनामपि निकटभाजामसुलभं
> चिरं याचे शंभो शिव तव पदाम्भोजभजनम्।।4।।

स्मृतौ शास्त्रे वैद्ये शकुनकवितागानफणितौ

> पुराणे मन्त्रे वा स्तुतिनटनहास्येष्वचतुरः।

कथं राज्ञां प्रीतिर्भवति मयि कोऽहं पशुपते
> पशुं मां सर्वज्ञ प्रथित कृपया पालय विभो।।5।।

घटो वा मृत्पिण्डोऽप्यणुरपि च धूमोऽग्निरचलः

> पटो वा तन्तुर्वा परिहरति किं घोरशमनम्।

वृथा कण्ठक्षोभं वहसि तरसा तर्कवचसा
> पदाम्भोजं शंभोर्भज परमसौख्यं व्रज सुधीः।।6।।

मनस्ते पादाब्जे निवसतु वचः [स्तोत्र](/posts/dvaadshlinggstotrm/)फणितौ

> करौ चाभ्यर्चायां श्रुतिरपि कथाकर्णनविधौ।

तव ध्याने बुद्धिर्नयनयुगलं मूर्तिविभवे
> परग्रन्थान्कैर्वा परमशिव जाने परमतः।।7।।

यथा बुद्धिः शुक्तौ रजतमिति काचाश्मनि मणि

> र्जले पैष्टे क्षीरं भवति मृगतृष्णासु सलिलम्।

तथा देवभ्रान्त्या भजति भवदन्यं जडजनो
> महादेवेशं त्वां मनसि च न मत्वा पशुपते।।8।।

गभीरे कासारे विशति विजने घोरविपिने

> विशाले शैले च भ्रमति कुसुमार्थं जडमतिः।

समर्प्यैकं चेतःसरसिजमुमानाथ भवते
> सुखेनावस्थातुं जन इह न जानाति किमहो।।9।।

नरत्वं देवत्वं नगवनमृगत्वं मशकता

> पशुत्वं कीटत्वं भवतु विहगत्वादि जननम्।

सदा त्वत्पादाब्जस्मरणपरमानन्दलहरी
> विहारासक्तं चेद्धृदयमिह किं तेन वपुषा।।10।।

वटुर्वा गेही वा यतिरपि जटी वा तदितरो

> नरो वा यः कश्िचद्भवतु भव किं तेन भवति।

यदीयं हृत्पद्मं यदि भवदधीनं पशुपते
> तदीयस्त्वं शंभो भवसि भवभारं च वहसि।।11।।

गुहायां गेहे वा बहिरपि वने वाद्रिशिखरे

> जले वा वह्नौ वा वसतु वसतेः किं वद फलम्।

सदा यस्यैवान्तःकरणमपि शंभो तव पदे
> स्थितं चेद्योगोऽसौ स च परमयोगी स च सुखी।।12।।

असारे संसारे निजभजनदूरे जडधिया

> भ्रमन्तं मामन्धं परमकृपया पातुमुचितम्।

मदन्यः को दीनस्तव कृपणरक्षातिनिपुण
> स्त्वदन्यः को वा मे त्रिजगति शरण्यः पशुपते।।13।।

प्रभुस्त्वं दीनानां खलु परमबन्धुः पशुपते

> प्रमुख्योऽहं तेषामपि किमुत बन्धुत्वमनयोः।

त्वयैव क्षन्तव्याः शिव मदपराधाश्च सकलाः
> प्रयत्नात्कर्तव्यं मदवनमियं बन्धुसरणिः।।14।।

उपेक्षा नो चेत्किं न हरसि भवद्ध्यानविमुखां

> दुराशाभूयिष्ठां विधिलिपिमशक्तो यदि भवान्।

शिरस्तद्वैधात्रं ननखलु सुवृत्तं पशुपते
> कथं वा निर्यत्नं करनखमुखेनैव लुलितम्।।15।।

विरिञ्चिर्दीर्घायुर्भवतु भवता तत्परशिर

> श्चतुष्कं संरक्ष्यं स खलु भुवि दैन्यं लिखितवान्।

विचारः को वा मां विशद कृपया पाति शिव ते
> कटाक्षव्यापारः स्वयमपि च दीनावनपरः।।16।।

फलाद्वा पुण्यानां मयि करुणया वा त्वयि विभो

> प्रसन्नेऽपि स्वामिन् भवदमलपादाब्जयुगलम्।

कथं पश्येयं मां स्थगयति नमःसंभ्रमजुषां
> निलिम्पानां श्रेणिर्निजकनकमाणिक्यमकुटैः।।17।।

त्वमेको लोकानां परमफलदो दिव्यपदवीं

> वहन्तस्त्वन्मूलां पुनरपि भजन्ते हरिमुखाः।

कियद्वा दाक्षिण्यं तव शिव मदाशा च कियती
> कदा वा मद्रक्षां वहसि करुणापूरितदृशा।।18।।

दुराशाभूयिष्ठे दुरधिपगृहद्वारघटके

> दुरन्ते संसारे दुरितनिलये दुःखजनके।

मदायासं किं न व्यपनयसि कस्योपकृतये
> वदेयं प्रीतिस्चेत्तव शिव कृतार्थाः खलु वयम्।।19।।

सदा मोहाटव्यां चरति युवतीनां कुचगिरौ

> नटत्याशाशाखास्वटति झटिति स्वैरमभितः।

कपालिन् भिक्षो मे हृदयकपिमत्यन्तचपलं
> दृढं भक्त्या बद्ध्वा शिव भवदधीनं कुरु विभो।।20।।

धृतिस्तम्भाधारां दृढगुणनिबद्धां सगमनां

> विचित्रां पद्माढ्यां प्रतिदिवससन्मार्गघटिताम्।

स्मरारे मच्चेतःस्फुटपटकुटीं प्राप्य विशदां
> जय स्वामिन् शक्त्या सह शिव गणैः सेवित विभो।।21।।

प्रलोभाद्यैरर्थाहरणपरतन्त्रो धनिगृहे

> प्रवेशोद्युक्तः सन्भ्रमति बहुधा तस्करपते।

इमं चेतश्चोरं कथमिह सहे शंकर विभो
> तवाधीनं कृत्वा मयि निरपराधे कुरु कृपाम्।।22।।

करोमि त्वत्पूजां सपदि सुखदो मे भव विभो

> विधित्वं विष्णुत्वं दिशसि खलु तस्याः फलमिति।

पुनश्च त्वां द्रष्टुं दिवि भुवि वहन्पक्षिमृगता
> मदृष्ट्वा तत्खेदं कथमिह सहे शंकर विभो।।23।।

कदा वा कैलासे कनकमणिसौधे सह गणै

> र्वसञ्शंभोरग्रे स्फुटघटितमूर्धाञ्जलिपुटः।

विभो साम्ब स्वामिन्परमशिव पाहीति निगद
> न्विधातृ़णां कल्पान्क्षणमिव विनेष्यामि सुखतः।।24।।

स्तवैर्ब्रह्मादीनां जयजयवचोभिर्नियमिनां

> गणानां केलीभिर्मदकलमहोक्षस्य ककुदि।

स्थितं नीलग्रीवं त्रिनयनमुमाश्िलष्टवपुषं
> कदा त्वां पश्येयं करधृतमृगं खण्डपरशुम्।।25।।

कदा वा त्वां दृष्ट्वा गिरिश तव भव्याङ्घ्रियुगलं

> गृहीत्वा हस्ताभ्यां शिरसि नयने वक्षसि वहन्।

समाश्िलष्याघ्राय स्फुटजलजगन्धान्परिमला
> नलभ्यां ब्रह्माद्यैर्मुदमनुभविष्यामि हृदये।।26।।

करस्थे हेमाद्रौ गिरिश निकटस्थे धनपतौ

> गृहस्थे स्वर्भूजामरसुरभिचिन्तामणिगणे।

शिरःस्थे शीतांशौ चरणयुगलस्थेऽखिलशुभे
> कमर्थं दास्येऽहं भवतु भवदर्थं मम मनः।।27।।

सारूप्यं तव पूजने शिव महादेवेति संकीर्तने

> सामीप्यं शिवभक्तिधुर्यजनतासांगत्यसंभाषणे।

सालोक्यं च चराचरात्मकतनुध्याने भवानीपते
> सायुज्यं मम सिद्धमत्र भवति स्वामिन्कृतार्थोऽस्म्यहम्।।28।।

त्वत्पादाम्बुजमर्चयामि परमं त्वां चिन्तयाम्यन्वहं

> त्वामीशं शरणं व्रजामि वचसा त्वामेव याचे विभो।

वीक्षां मे दिश चाक्षुषीं सकरुणां दिव्यैश्िचरं प्रार्थितां
> शंभो लोकगुरो मदीयमनसः सौख्योपदेशं कुरु।।29।।

वस्त्रोद्धूतविधौ सहस्रकरता पुष्पार्चने विष्णुता

> गन्धे गन्धवहात्मतान्नपचने बर्हिर्मुखाध्यक्षता।

पात्रे काञ्चनगर्भतास्ति मयि चेद्बालेन्दुचू़डामणे
> शुश्रूषां करवाणि ते पशुपते स्वामिंस्त्रिलोकीगुरो।।30।।

नालं वा परमोपकारकमिदं त्वेकं पशूनां पते

> पश्यन्कुक्षिगतांश्चराचरगणान्बाह्यस्थितान्रक्षितुम्।

सर्वामर्त्यपलायनौषधमतिज्वालाकरं भीकरं
> निक्षिप्तं गरलं गले न गिलितं नोद्गीर्णमेव त्वया।।31।।

ज्वालोग्रः सकलामरातिभयदः क्ष्वेलः कथं वा त्वया

> दृष्टः किं च करे धृतः करतले किं पक्वजम्बूफलम्।

जिह्वायां निहितश्च सिद्धघुटिका वा कण्ठदेशे भृतः
> किं ते नीलमणिर्विभूषणमयं शंभो महात्मन्वद।।32।।

नालं वा सकृदेव देव भवतः सेवा नतिर्वा नुतिः

> पूजा वा स्मरणं कथाश्रवणमप्यालोकनं मादृशाम्।

स्वामिन्नस्थिरदेवतानुसरणायासेन किं लभ्यते
> का वा मुक्तिरितः कुतो भवति चेत्किं प्रार्थनीयं तदा।।33।।

किं ब्रूमस्तव साहसं पशुपते कस्यास्ति शंभो भव

> द्धैर्यं चेदृशमात्मनः स्थितिरियं चान्यैः कथं लभ्यते।

भ्रश्यद्देवगणं त्रसन्मुनिगणं नश्यत्प्रपञ्चं लयं
> पश्यन्निर्भय एक एव विहरत्यानन्दसान्द्रो भवान्।।34।।

योगक्षेमधुरंधरस्य सकलश्रेयःप्रदोद्योगिनो

> दृष्टादृष्टमतोपदेशकृतिनो बाह्यान्तरव्यापिनः।

सर्वज्ञस्य दयाकरस्य भवतः किं वेदितव्यं मया
> शंभो त्वं परमान्तरङ्ग इति मे चित्ते स्मराम्यन्वहम्।।35।।

भक्तो भक्तिगुणावृते मुदमृतापूर्णे प्रसन्ने मनः

> कुम्भे साम्ब तवाङ्घ्रिपल्लवयुगं संस्थाप्य संवित्फलम्।

सत्त्वं मन्त्रमुदीरयन्निजशरीरागारशुद्धिं वह
> न्पुण्याहं प्रकटीकरोमि रुचिरं कल्याणमापादयन्।।36।।

आम्नायाम्बुधिमादरेण सुमनःसंघाः समुद्यन्मनो

> मन्थानं दृढभक्तिरज्जुसहितं कृत्वा मथित्वा ततः।

सोमं कल्पतरुं सुपर्वसुरभिं चिन्तामणिं धीमतां
> नित्यानन्दसुधां निरन्तररमासौभाग्यमातन्वते।।37।।

प्राक्पुण्याचलमार्गदर्शितसुधामूर्तिः प्रसन्नः शिवः

> सोमः सद्गणसेवितो मृगधरः पूर्णस्तमोमोचकः।

चेतःपुष्करलक्षितो भवति चेदानन्दपाथोनिधिः
> प्रागल्भ्येन विजृम्भते सुमनसां वृत्तिस्तदा जायते।।38।।

धर्मो मे चतुरङ्घ्रिकः सुचरितः पापं विनाशं गतं

> कामक्रोधमदादयो विगलिताः कालाः सुखाविष्कृतः।

ज्ञानानन्दमहौषधिः सुफलिता कैवल्यनाथे सदा
> मान्ये मानसपुण्डरीकनगरे राजावतंसे स्थिते।।39।।

धीयन्त्रेण वचोघटेन कविताकुल्योपकुल्याक्रमै

> रानीतैश्च सदाशिवस्य चरिताम्भोराशिदिव्यामृतैः।

हृत्केदारयुताश्च भक्तिकलमाः साफल्यमातन्वते
> दुर्भिक्षान्मम सेवकस्य भगवन्विश्वेश भीतिः कुतः।।40।।

पापोत्पातविमोचनाय रुचिरैश्वर्याय मृत्युंजय

> स्तोत्रध्याननतिप्रदक्षिणसपर्यालोकनाकर्णने।

जिह्वाचित्तशिरोङ्घ्रिहस्तनयनश्रोत्रैरहं प्रार्थितो
> मामाज्ञापय तन्निरूपय मुहुर्मामेव मा मेऽवचः।।41।।

गाम्भीर्यं परिखापदं घनधृतिः प्राकार उद्यद्गुण

> स्तोमश्चाप्तबलं घनेन्द्रियचयो द्वाराणि देहे स्थितः।

विद्या वस्तुसमृद्धिरित्यखिलसामग्रीसमेते सदा
> दुर्गातिप्रियदेव मामकमनोदुर्गे निवासं कुरु।।42।।

मा गच्छ त्वमितस्ततो गिरिश भो मय्येव वासं कुरु

> स्वामिन्नादिकिरात मामकमनःकान्तारसीमान्तरे।

वर्तन्ते बहुशो मृगा मदजुषो मात्सर्यमोहादय
> स्तान्हत्वा मृगयाविनोदरुचितालाभं च संप्राप्स्यसि।।43।।

करलग्नमृगः करीन्द्रभङ्गो

> घनशार्दूलविखण्डनोऽस्तजन्तुः।

गिरिशो विशदाकृतिश्च चेतः
> कुहरे पञ्चमुखोऽस्ति मे कुतो भीः।।44।।

छन्दःशाखिशिखान्वितैर्द्विजवरैः संसेविते शाश्वते

> सौख्यापादिनि खेदभेदिनि सुधासारैः फलैर्दीपिते।

चेतःपक्षिशिखामणे त्यज वृथासंचारमन्यैरलं
> नित्यं शंकरपादपद्मयुगलीनीडे विहारं कुरु।।45।।

आकीर्णे नखराजिकान्तिविभवैरुद्यत्सुधावैभवै

> राधौतेऽपि च पद्मरागललिते हंसव्रजैराश्रिते।

नित्यं भक्तिवधूगणैश्च रहसि स्वेच्छाविहारं कुरु
> स्थित्वा मानसराजहंस गिरिजानाथाङ्घ्रिसौधान्तरे।।46।।

शुंभुध्यानवसन्तसङ्गिनि हृदारामेऽघजीर्णच्छदाः

> स्रस्ता भक्तिलताच्छटा विलसिताः पुण्यप्रवालश्रिताः।

दीप्यन्ते गुणकोरका जपवचःपुष्पाणि सद्वासना
> ज्ञानानन्दसुधामरन्दलहरी संवित्फलाभ्युन्नतिः।।47।।

नित्यानन्दरसालयं सुरमुनिस्वान्ताम्बुजाताश्रयं

> स्वच्छं सद्द्विजसेवितं कलुषहृत्सद्वासनाविष्कृतम्।

शुंभुध्यानसरोवरं व्रज मनोहंसावतंस स्थिरं
> किं क्षुद्राश्रयपल्वलभ्रमणसंजातश्रमं प्राप्स्यसि।।48।।

आनन्दामृतपूरिता हरपदाम्भोजालवालोद्यता

> स्थैर्योपघ्नमुपेत्य भक्तिलतिका शाखोपशाखान्विता।

उच्चैर्मानसकायमानपटलीमाक्रम्य निष्कल्मषा
> नित्याभीष्टफलप्रदा भवतु मे सत्कर्मसंवर्धिता।।49।।

संध्यारम्भविजृम्भितं श्रुतिशिरःस्थानान्तराधिष्ठितं

> सप्रेमभ्रमराभिराममसकृत्सद्वासनाशोभितम्।

भोगीन्द्राभरणं समस्तसुमनःपूज्यं गुणाविष्कृतं
> सेवे श्रीगिरिमल्लिकार्जुनमहालिङ्गं शिवालिङ्गितम्।।50।।

भृङ्गीच्छानटनोत्कटः करिमदग्राही स्फुरन्माधवा

> ह्लादो नादयुतो महासितवपुः पञ्चेषुणा चादृतः।

सत्पक्षः सुमनोवनेषु स पुनः साक्षान्मदीये मनो
> राजीवे भ्रमराधिपो विहरतां श्रीशैलवासी विभुः।।51।।

कारुण्यामृतवर्षिणं घनविपद्ग्रीष्मच्छिदाकर्मठं

> विद्यासस्यफलोदयाय सुमनःसंसेव्यमिच्छाकृतिम्।

नृत्यद्भक्तमयूरमद्रिनिलयं चञ्चज्जटामण्डलं
> शंभो वाञ्छति नीलकंधर सदा त्वां मे मनश्चातकः।।52।।

आकाशेन शिखी समस्तफणिनां नेत्रा कलापी नता

> नुग्राहिप्रणवोपदेशनिनदैः केकीति यो गीयते।

श्यामां शैलसमुद्भवां घनरुचिं दृष्ट्वा नटन्तं मुदा
> वेदान्तोपवने विहाररसिकं तं नीलकण्ठं भजे।।53।।

संध्या घर्मदिनात्ययो हरिकराघातप्रभूतानक

> ध्वानो वारिदगर्जितं दिविषदां दृष्टिच्छटा चञ्चला।

भक्तानां परितोषबाष्पविततिर्वृष्टिर्मयूरी शिवा
> यस्मिन्नुज्ज्वलताण्डवं विजयते तं नीलकण्ठं भजे।।54।।

आद्यायामिततेजसे श्रुतिपदैर्वेद्याय साध्याय ते

> विद्यानन्दमयात्मने त्रिजगतः संरक्षणोद्योगिने।

ध्येयायाखिलयोगिभिः सुरगणैर्गेयाय मायाविने
> सम्यक्ताण्डवसंभ्रमाय जटिने सेयं नतिः शंभवे।।55।।

नित्याय त्रिगुणात्मने पुरजिते कात्यायनीश्रेयसे

> सत्यायादिकुटुम्बिने मुनिमनःप्रत्यक्षचिन्मूर्तये।

मायासृष्टजगत्त्रयाय सकलाम्नायान्तसंचारिणे
> सायंताण्डवसंभ्रमाय जटिने सेयं नतिः शंभवे।।56।।

नित्यं स्वोदरपूरणाय सकलानुद्दिश्य वित्ताशया

> व्यर्थं पर्यटनं करोमि भवतः सेवां न जाने विभो।

मज्जन्मान्तरपुण्यपाकबलतस्त्वं शर्व सर्वान्तर
> स्तिष्ठस्येव हि तेन वा पशुपते ते रक्षणीयोऽस्म्यहम्।।57।।

एको वारिजबान्धवः क्षितिनभोव्याप्तं तमोमण्डलं

> भित्त्वा लोचनगोचरोऽपि भवति त्वं कोटिसूर्यप्रभः।

वेद्यः किं न भवस्यहो घनतरं कीदृग्भवेन्मत्तम
> स्तत्सर्वं व्यपनीय मे पशुपते साक्षात्प्रसन्नो भव।।58।।

हंसः पद्मवनं समिच्छति यथा नीलाम्बुदं चातकः

> कोकः कोकनदप्रियं प्रतिदिनं चन्द्रं चकोरस्तथा।

चेतो वाञ्छति मामकं पशुपते चिन्मार्गमृग्यं विभो
> गौरीनाथ भवत्पदाब्जयुगलं कैवल्यसौख्यप्रदम्।।59।।

रोधस्तोयहृतः श्रमेण पथिकश्छायां तरोर्वृष्टितो

> भीतः स्वस्थगृहं गृहस्थमतिथिर्दीनः प्रभुं धार्मिकम्।

दीपं संतमसाकुलश्च शिखिनं शीतावृतस्त्वं तथा
> चेतः सर्वभयापहं व्रज सुखं शंभोः पदाम्भोरुहम्।।60।।

अङ्कोलं निजबीजसंततिरयस्कान्तोपलं सूचिका

> साध्वी नैजविभुं लता क्षितिरुहं सिन्धुः सरिद्वल्लभम्।

प्राप्नोतीह यथा तथा पशुपतेः पादारविन्दद्वयं
> चेतोवृत्तिरुपेत्य तिष्ठति सदा सा भक्तिरित्युच्यते।।61।।

आनन्दाश्रुभिरातनोति पुलकं नैर्मल्यतश्छादनं

> वाचाशङ्खमुखे स्थितैश्च जठरापूर्तिं चरित्रामृतैः।

रुद्राक्षैर्भसितेन देव वपुषो रक्षां भवद्भावना
> पर्यङ्के विनिवेश्य भक्तिजननी भक्तार्भकं रक्षति।।62।।

मार्गावर्तितपादुका पशुपतेरङ्गस्य कूर्चायते

> गण्डूषाम्बुनिषेचनं पुररिपोर्दिव्याभिषेकायते।

किंचिद्भक्षितमांसशेषकबलं नव्योपहारायते
> भक्तिः किं न करोत्यहो वनचरो भक्तावतंसायते।।63।।

वक्षस्ताडनमन्तकस्य कठिनापस्मारसंमर्दनं

> भूभृत्पर्यटनं नमत्सुरशिरःकोटीरसंघर्षणम्।

कर्मेदं मृदुलस्य तावकपदद्वन्द्वस्य किं वोचितं
> मच्चेतोमणिपादुकाविहरणं शंभो सदाङ्गीकुरु।।64।।

वक्षस्ताडनशङ्कया विचलितो वैवस्वतो निर्जराः

> कोटिरोज्ज्वलरत्नदीपकलिकानीराजनं कुर्वते।

दृष्ट्वा मुक्तिवधूस्तनोति निभृताश्लेषं भवानीपते
> यच्चेतस्तव पादपद्मभजनं तस्येह किं दुर्लभम्।।65।।

क्रीडार्थं सृजसि प्रपञ्चमखिलं क्त्रीडामृगास्ते जना

> यत्कर्माचरितं मया च भवतः प्रीत्यै भवत्येव तत्।

शंभो स्वस्य कुतूहलस्य करणं मच्चेष्टितं निश्िचतं
> तस्मान्मामकरक्षणं पशुपते कर्तव्यमेव त्वया।।66।।

बहुविधपरितोषबाष्पपूर

> स्फुटपुलकाङ्कितचारुभोगभूमिम्।

चिरपदफलकाङ्क्षिसेव्यमानां
> परमसदाशिवभावनां प्रपद्ये।।67।।

अमितमुदमृतं मुहुर्दुहन्तीं

> विमलभवत्पदगोष्ठमावसन्तीम्।

सदय पशुपते सुपुण्यपाकां
> मम परिपालय भक्तिधेनुमेकाम्।।68।।

जडता पशुता कलङ्किता

> कुटिलचरत्वं च नास्ति मयि देव।

अस्ति यदि राजमौले
> भवदाभरणस्य नास्मि किं पात्रम्।।69।।

अरहसि रहसि स्वतन्त्रबुद्ध्या

> वरिवसितुं सुलभः प्रसन्नमूर्तिः।

अगणितफलदायकः प्रभुर्मे
> जगदधिको हृदि राजशेखरोऽस्ति।।70।।

आरूढभक्तिगुणकुञ्चितभावचाप

> युक्तैः शिवस्मरणबाणगणैरमोघैः।

निर्जित्य किल्बिषरिपून्विजयी सुधीन्द्रः
> सानन्दमावहति सुस्थिरराजलक्ष्मीम्।।71।।

ध्यानाञ्जनेन समवेक्ष्य तमःप्रदेशं

> भित्त्वा महाबलिभिरीश्वरनाममन्त्रैः।

दिव्याश्रितं भुजगभूषणमुद्वहन्ति
> ये पादपद्ममिह ते शिव ते कृतार्थाः।।72।।

भूदारतामुदवहद्यदपेक्षया श्री

> भूदार एव किमतः सुमते लभस्व।

केदारमाकलितमुक्तिमहौषधीनां
> पादारविन्दभजनं परमेश्वरस्य।।73।।

आशापाशक्लेशदुर्वासनादि

> भेदोद्युक्तैर्दिव्यगन्धैरमन्दैः।

आशाशाटीकस्य पादारविन्दं
> चेतःपेटीं वासितां मे तनोतु।।74।।

कल्याणिनं सरसचित्रगतिं सवेगं

> सर्वेङ्गितज्ञमनघं ध्रुवलक्षणाढ्यम।

चेतस्तुरङ्गमधिरुह्य चर स्मरारे
> नेतः समस्तजगतां वृषभाधिरूढ।।75।।

भक्तिर्महेशपदपुष्करमावसन्ती

> कादम्बिनीव कुरुते परितोषवर्षम्।

संपूरितो भवति यस्य मनस्तटाक
> स्तज्जन्मसस्यमखिलं सफलं च नान्यत्।।76।।

बुद्धिः स्थिरा भवितुमीश्वरपादपद्म

> सक्ता वधूर्विरहिणीव सदा स्मरन्ती।

सद्भावनास्मरण[दर्शन](/posts/1-paashcaaty-drshn-1-1-drshnkii/)कीर्तनादि
> संमोहितेव शिवमन्त्रजपेन विन्त्ते।।77।।

सदुपचारविधिष्वनुबोधितां

> सविनयां सुहृदं समुपाश्रिताम्।

मम समुद्धर बुद्धिमिमां प्रभो
> वरगुणेन नवोढवधूमिव।।78।।

नित्यं योगिमनःसरोजदलसंचारक्षमस्त्वत्क्रमः

> शंभो तेन कथं कठोरयमराड्वक्षःकवाटक्षतिः।

अत्यन्तं मृदुलं त्वदङ्घ्रियुगलं हा मे मनश्िचन्तय
> त्येतल्लोचनगोचरं कुरु विभो हस्तेन संवाहये।।79।।

एष्यत्येष जनिं मनोऽस्य कठिनं तस्मिन्नटानीति म

> द्रक्षायै गिरिसीम्नि कोमलपदन्यासः पुराभ्यासितः।

नो चेद्दिव्यगृहान्तरेषु सुमनस्तल्पेषु वेद्यादिषु
> प्रायः सत्सु शिलातलेषु नटनं शंभो किमर्थं तव।।80।।

कंचित्कालमुमामहेश भवतः पादारविन्दार्चनैः

> कंचिद्ध्यानसमाधिभिश्च नतिभिः कंचित्कथाकर्णनैः।

कंचित्कंचिदवेक्षणैश्च नुतिभिः कंचिद्दशामीदृशीं
> यः प्राप्नोति मुदा त्वदर्पितमना जीवन्स मुक्तः खलु।।81।।

बाणत्वं वृषभत्वमर्धवपुषा भार्यात्वमार्यापते

> घोणित्वं सखिता मृदङ्गवहता चेत्यादि रूपं दधौ।

त्वत्पादे नयनार्पणं च कृतवांस्त्वद्देहभागो हरिः
> पूज्यात्पूज्यतरः स एव हि न चेत्को वा तदन्योऽधिकः।।82।।

जननमृतियुतानां सेवया देवतानां

> न भवति सुखलेशः संशयो नास्ति तत्र।

अजनिममृतरूपं साम्बमीशं भजन्ते
> य इह परमसौख्यं ते हि धन्या लभन्ते।।83।।

शिव तव परिचर्यासंनिधानाय गौर्या

> भव मम गुणधुर्यां बुद्धिकन्यां प्रदास्ये।

सकलभुवनबन्धो सच्चिदानन्दसिन्धो
> सदय हृदयगेहे सर्वदा संवस त्वम्।।84।।

जलधिमथनदक्षो नैव पातालभेदी

> न च वनमृगयायां नैव लुब्धः प्रवीणः।

अशनकुसुमभूषावस्त्रमुख्यां सपर्यां
> कथय कथमहं ते कल्पयानीन्दुमौले।।85।।

पूजाद्रव्यसमृद्धयो विरचिताः पूजां कथं कुर्महे

> पक्षित्वं न च वा किटित्वमपि न प्राप्तं मया दुर्लभम्।

जाने मस्तकमङ्घ्रिपल्लवमुमाजाने न तेऽहं विभो
> न ज्ञातं हि पितामहेन हरिणा तत्त्वेन तद्रूपिणा।।86।।

अशनं गरलं फणी कलापो

> वसनं चर्म च वाहनं महोक्षः।

मम दास्यसि किं किमस्ति शंभो
> तव पादाम्बुजभक्तिमेव देहि।।87।।

यदा कृताम्भोनिधिसेतुबन्धनः

> करस्थलाधःकृतपर्वताधिपः।

भवानि ते लङ्घितपद्मसंभव
> स्तदा शिवार्चास्तवभावनक्षमः।।88।।

नतिभिर्नुतिभिस्त्वमीश पूजा

> विधिभिर्ध्यानसमाधिभिर्न तुष्टः।

धनुषा मुसलेन चाश्मभिर्वा
> वद ते प्रीतिकरं तथा करोमि।।89।।

वचसा चरितं वदामि शंभो

> रहमुद्योगविधासु तेऽप्रसक्तः।

मनसाकृतिमीश्वरस्य सेवे
> शिरसा चैव सदाशिवं नमामि।।90।।

आद्याविद्या हृद्गता निर्गतासी

> द्विद्या हृद्या हृद्गता त्वत्प्रसादात्।

सेवे नित्यं श्रीकरं त्वत्पदाब्जं
> भावे मुक्तेर्भाजनं राजमौले।।91।।

दूरीकृतानि दुरितानि दुरक्षराणि

> दौर्भाग्यदुःखदुरहंकृतिदुर्वचांसि।

सारं त्वदीयचरितं नितरां पिबन्तं
> गौरीश मामिह समुद्धर सत्कटाक्षैः।।92।।

सोमकलाधरमौलौ

> कोमलघनकंधरे महामहसि।

स्वामिनि गिरिजानाथे
> मामकहृदयं निरन्तरं रमताम्।।93।।

सा रसना ते नयने

> तावेव करौ स एव कृतकृत्यः।

या ये यौ यो भर्गं
> वदतीक्षेते सदार्चतः स्मरति।।94।।

अतिमृदुलौ मम चरणा

> वतिकठिनं ते मनो भवानीश।

इति विचिकित्सां संत्यज
> शिव कथमासीद्गिरौ तथा वेशः।।95।।

धैर्याङ्कुशेन निभृतं

> रभसादाकृष्य भक्तिश्रृङ्खलया।

पुरहर चरणालाने
> हृदयमदेभं बधान चिद्यन्त्रैः।।96।।

प्रचरत्यभितः प्रगल्भवृत्त्या

> मदवानेष मनःकरी गरीयान्।

परिगृह्य नयेन भक्तिरज्ज्वा
> परम स्थाणु पदं दृढं नयामुम्।।97।।

सर्वालंकारयुक्तां सरलपदयुतां साधुवृत्तां सुवर्णां

> सद्भिः संस्तूयमानां सरसगुणयुतां लक्षितां लक्षणाढ्याम्।

उद्यद्भूषाविशेषामुपगतविनयां द्योतमानार्थरेखां
> कल्याणीं देव गौरीप्रिय मम कविताकन्यकां त्वं गृहाण।।98।।

इदं ते युक्तं वा परमशिव कारुण्यजलधे

> गतौ तिर्यग्रूपं तव पदशिरोदर्शनधिया।

हरिब्रह्माणौ तौ दिवि भुवि चरन्तौ श्रमयुतौ
> कथं शंभो स्वामिन्कथय मम वेद्योऽसि पुरतः।।99।।

स्तोत्रेणालमहं प्रवच्मि न मृषा देवा विरिञ्चादयः

> स्तुत्यानां गणनाप्रसङ्गसमये त्वामग्रगण्यं विदुः।

माहात्म्याग्रविचारणप्रकरणे धानातुषस्तोमव
> द्धूतास्त्वां विदुरुत्तमोत्तमफलं शंभो भवत्सेवकाः।।100।।

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यापादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ

> शिवानन्दलहरी संपूर्णा।।
