# उमामहेश्वरस्तोत्रम्

> ।।श्रीः।। ।।उमामहेश्वरस्तोत्रम्।। नमः शिवाभ्यां नवयौवनाभ्यां परस्पराश्िलष्टवपुर्धराभ्यां नगेन्द्रकन्यावृषकेतनाभ्यां नमो नमः शंकरपार्वतीभ्याम्।।1।। नमः शिवाभ्यां सरसोत्सवाभ्यां नमस्कृताभीष्टवरप्रदाभ्या…

- **Canonical URL:** https://batukuvacha.com/posts/umaamheshvrstotrm/
- **Published:** 2021-12-23
- **Publisher:** बटुक उवाच (Batuk Uvacha) — https://batukuvacha.com
- **Language:** Hindi (hi), with Sanskrit passages
- **Categories:** स्तोत्र
- **Tags:** आदिशङ्कराचार्यः, उमा, शिव

_Cite as: बटुक उवाच, “उमामहेश्वरस्तोत्रम्”, https://batukuvacha.com/posts/umaamheshvrstotrm/_

---
> ।।श्रीः।। \

> ।।उमामहेश्वर[स्तोत्र](/posts/dvaadshlinggstotrm/)म्।।
नमः [शिव](/posts/shivbhujngm/)ाभ्यां नवयौवनाभ्यां

परस्पराश्िलष्टवपुर्धराभ्यां

नगेन्द्रकन्यावृषकेतनाभ्यां
> नमो नमः शंकरपार्वतीभ्याम्।।1।।

नमः शिवाभ्यां सरसोत्सवाभ्यां

> नमस्कृताभीष्टवरप्रदाभ्याम्।

नारायणेनार्चितपादुकाभ्यां
> नमो नमः शंकरपार्वतीभ्याम्।।2।।

नमः शिवाभ्यां वृषवाहनाभ्यां

> विरिञ्चिविष्ण्विन्द्रसुपूजिताभ्याम्।

विभूतिपाटीरविलेपनाभ्यां
> नमो नमः शंकरपार्वतीभ्याम्।।3।।

नमः शिवाभ्यां जगदीश्वराभ्यां

जगत्पतिभ्यां जयविग्रहाभ्याम्

जम्भारिमुख्यैरभिवन्दिताभ्यां
> नमो नमः शंकरपार्वतीभ्याम्।।4।।

नमः शिवाभ्यां परमौषधाभ्यां

> पञ्चाक्षरीपञ्जररञ्जिताभ्याम्।

प्रपञ्चसृष्टिस्थितिसंहृताभ्यां
> नमो नमः शंकरपार्वतीभ्याम्।।5।।

नमः शिवाभ्यामतिसुन्दराभ्या

> मत्यन्तमासक्तहृदम्बुजाभ्याम्।

अशेषलोकैकहितंकराभ्यां
> नमो नमः शंकरपार्वतीभ्याम्।।6।।

नमः शिवाभ्यां कलिनाशनाभ्यां

> कङ्कालकल्याणवपुर्धराभ्याम्।

कैलासशैलस्थितदेवताभ्यां
> नमो नमः शंकरपार्वतीभ्याम्।।7।।

नमः शिवाभ्यामशुभापहाभ्या

> मशेषलोकैकविशेषिताभ्याम्।

अकुण्ठिताभ्यां स्मृतिसंभृताभ्यां
> नमो नमः शंकरपार्वतीभ्याम्।।8।।

नमः शिवाभ्यां रथवाहनाभ्यां

> रवीन्दुवैश्वानरलोचनाभ्याम्।

राकाशशाङ्काभमुखाम्बुजाभ्यां
> नमोः नमः शंकरपार्वतीभ्याम्।।9।।

नमः शिवाभ्यां जटिलंधराभ्यां

> जरामृतिभ्यां च विवर्जिताभ्याम्।

जनार्दनाब्जोद्भवपूजिताभ्यां
> नमो नमः शंकरपार्वतीभ्याम्।।10।।

नमः शिवाभ्यां विषमेक्षणाभ्यां

> बिल्वच्छदामल्लिकदामभृद्भ्या(?)म्।

शोभावतीशान्तवतीश्वराभ्यां
> नमो नमः शंकरपार्वतीभ्याम्।।11।।

नमः शिवाभ्यां पशुपालकाभ्यां

> जगत्त्रयीरक्षणबद्धहृद्भ्याम्।

समस्तदेवासुरपूजिताभ्यां
> नमो नमः शंकरपार्वतीभ्याम्।।12।।

स्तोत्रं त्रिसंध्यं शिवपार्वतीभ्यां

> भक्त्या पठेद्द्वाशकं नरो यः।

स सर्वसौभाग्यफलानि भुङ्क्ते
> शतायुरन्ते शिवलोकमेति।।13।।

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ

> उमामहेश्वरस्तोत्रं संपूर्णम्।।
