दशश्लोकीस्तुतिः
।।श्रीः।। ।।दशश्लोकीस्तुतिः।।साम्बो नः कुलदैवतं पशुपते साम्ब त्वदीया वयं साम्बं स्तौमि सुरासुरोरगगणाः साम्बेन संतारिताः। साम्बायास्तु नमो मया विरचितं साम्बात्परं नो भजे।साम्बस्यानुचरोऽस्म्यहं मम रतिः साम्बे परब्रह्मणि।।1।। विष्ण्वाद्याश्च पुरत्रयं सुरगणा जेतुं न शक्ताः स्वयं यं शंभुं भगवन्वयं तु पशवोऽस्माकं त्वमेवेश्वरः। स्वस्वस्थाननियोजिताः सुमनसः स्वस्था बभूवुस्ततस्तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि।।2।। क्षोणी यस्य रथो रथाङ्गयुगलं चन्द्रार्कबिम्बद्वयं कोदण्डः कनकाचलो हरिरभूद्बाणो विधिः […]