श्रीदक्षिणामूर्त्यष्टकम्

।।श्रीः।। ।।श्रीदक्षिणामूर्त्यष्टकम्।।विश्वं दर्पणदृश्यमाननगरीतुल्यं निजान्तर्गतं पश्यन्नात्मनि मायया बहिरिवोद्भूतं यथा निद्रया। यः साक्षात्कुरुते प्रबोधसमये स्वात्मानमेवाद्वयंतस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये।।1।। बीजस्यान्तरिवाङ्कुरो जगदिदं प्राङ्निर्विकल्पं पुन र्मायाकल्पितदेशकालकलनावैचित्र्यचित्रीकृतम्। मायावीव विजृम्भयत्यपि महायोगीव यः स्वेच्छयातस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये।।2।। यस्यैव स्फुरणं सदात्मकमसत्कल्पार्थगं भासते साक्षात्तत्त्वमसीति वेदवचसा यो बोधयत्याश्रितान्। यत्साक्षात्करणाद्भवेन्न पुनरावृत्तिर्भवाम्भोनिधौतस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये।।3।। नानाच्छिद्रघटोदरस्थितमहादीपप्रभाभास्वरं ज्ञानं यस्य तु चक्षुरादिकरणद्वारा बहिः स्पन्दते। जानामीति तमेव भान्तमनुभात्येतत्समस्तं… Continue reading श्रीदक्षिणामूर्त्यष्टकम्

श्रीमृत्युंजयमानसिकपूजास्तोत्रम्

।।श्रीः।। ।।श्रीमृत्युंजयमानसिकपूजास्तोत्रम्।।कैलासे कमनीयरत्नखचिते कल्पद्रुमूले स्थितं कर्पूरस्फटिकेन्दुसुन्दरतनुं कात्यायनीसेवितम्। गङ्गातुङ्गतरङ्गरञ्जितजटाभारं कृपासागरंकण्ठालंकृतशेषभूषणममुं मृत्युंजयं भावये।।1।। आगत्य मृत्युंजय चन्द्रमौले व्याघ्राजिनालंकृत शूलपाणे। स्वभक्तसंरक्षणकामधेनोप्रसीद विश्वेश्वर पार्वतीश।।2।। भास्वन्मौक्तिकतोरणे मरकतस्तम्भायुतालंकृते सौधे धूपसुवासिते मणिमये माणिक्यदीपाञ्चिते। ब्रह्मेन्द्रामरयोगिपुंगवगणैर्युक्ते च कल्पद्रुमैःश्रीमृत्युंजय सुस्थिरो भव विभो माणिक्यसिंहासने।।3।। मन्दारमल्लकरवीरमाधवी पुंनागनीलोत्पलचम्पकान्वितैः। कर्पूरपाटीरसुवासितैर्जलैराधत्स्व मृत्युंजय पाद्यमुत्तमम्।।4।। सुगन्धपुष्पप्रकरैः सुवासितै र्वियन्नदीशीतलवारिभिः शुभैः। त्रिलोकनाथार्तिहरार्घ्यमादराद्गृहाण मृत्युंजय सर्ववन्दित।।5।। हिमाम्बुवासितैस्तोयैः शीतलैरतिपावनैः।मृत्युंजय महादेव शुद्धाचमनमाचर।।6।। गुडदधिसहितं मधुप्रकीर्णं सुघृतसमन्वितधेनुदुग्धयुक्तम्। शुभकर मधुपर्कमाहर त्वंत्रिनयन मृत्युहर… Continue reading श्रीमृत्युंजयमानसिकपूजास्तोत्रम्

दशश्लोकीस्तुतिः

।।श्रीः।। ।।दशश्लोकीस्तुतिः।।साम्बो नः कुलदैवतं पशुपते साम्ब त्वदीया वयं साम्बं स्तौमि सुरासुरोरगगणाः साम्बेन संतारिताः। साम्बायास्तु नमो मया विरचितं साम्बात्परं नो भजे।साम्बस्यानुचरोऽस्म्यहं मम रतिः साम्बे परब्रह्मणि।।1।। विष्ण्वाद्याश्च पुरत्रयं सुरगणा जेतुं न शक्ताः स्वयं यं शंभुं भगवन्वयं तु पशवोऽस्माकं त्वमेवेश्वरः। स्वस्वस्थाननियोजिताः सुमनसः स्वस्था बभूवुस्ततस्तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि।।2।। क्षोणी यस्य रथो रथाङ्गयुगलं चन्द्रार्कबिम्बद्वयं कोदण्डः कनकाचलो हरिरभूद्बाणो विधिः… Continue reading दशश्लोकीस्तुतिः

शिवपञ्चाक्षरनक्षत्रमालास्तोत्रम्

।।श्रीः।। ।।शिवपञ्चाक्षरनक्षत्रमालास्तोत्रम्।।श्रीमदात्मने गुणैकसिन्धवे नमः शिवाय धामलेशधूतकोकबन्धवे नमः शिवाय। नामशेषितानमद्भवान्धवे नमः शिवायपामरेतरप्रधानबन्धवे नमः शिवाय।।1।। कालभीतविप्रबालपाल ते नमः शिवाय शूलभिन्नदुष्टदक्षफाल ते नमः शिवाय। मूलकारणाय कालकाल ते नमः शिवायपालयाधुना दयालवाल ते नमः शिवाय।।2।। इष्टवस्तुमुख्यदानहेतवे नमः शिवाय दुष्टदैत्यवंशधूमकेतवे नमः शिवाय। सृष्टिरक्षणाय धर्मसेतवे नमः शिवायअष्टमूर्तये वृषेन्द्रकेतवे नमः शिवाय।।3।। आपदद्रिभेदटङ्कहस्त ते नमः शिवाय पापहारिदिव्यसिन्धुमस्त ते नमः शिवाय। पापदारिणे लसन्नमस्तते नमः शिवायशापदोषखण्डनप्रशस्त… Continue reading शिवपञ्चाक्षरनक्षत्रमालास्तोत्रम्

Exit mobile version