श्रीदक्षिणामूर्तिवर्णमालास्तोत्रम्
।।श्रीः।। ।।श्रीदक्षिणामूर्तिवर्णमालास्तोत्रम्।।मित्येतद्यस्य बुधैर्नाम गृहीतं यद्भासेदं भाति समस्तं वियदादि। यस्याज्ञातः स्वस्वपदस्था विधिमुख्यास्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि।।1।। नम्राङ्गाणां भक्तिमतां यः पुरुषार्था न्दत्वा क्षिप्रं हन्ति च तत्सर्वविपत्तीः। पादाम्भोजाधस्तनितापस्मृतिमीशंतं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि।।2।। मोहध्वस्त्यै वैणिकवैयासिकिमुख्याः संविन्मुद्रापुस्तकवीणाक्षगुणान्यम्। हस्ताम्भोजैर्बिभ्रतमाराधितवन्तस्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि।।3।। भद्रारूढं भद्रदमाराधयितृ़णां भक्तिश्रद्धापूर्वकमीशं प्रणमन्ति। आदित्या यं वाञ्छितसिद्ध्यै करुणाब्धिंतं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि।।4।। गर्भान्तःस्थाः प्राणिन एते भवपाश च्छेदे दक्षं निश्िचतवन्तः शरणं यम्। आराध्याङ्घ्रिप्रस्फुरदम्भोरुहयुग्मंतं […]