शिवपादादिकेशान्तवर्णनस्तोत्रम्
।।श्रीः।। ।।शिवपादादिकेशान्तवर्णनस्तोत्रम्।।कल्याणं नो विधत्तां कटकतटलसत्कल्पवाटीनिकुञ्ज क्रीडासंसक्तविद्याधरनिकरवधूगीतरुद्रापदानः। तारैर्हेरम्बनादैस्तरलितनिनदत्तारकारातिकेकीकैलासः शर्वनिर्वृत्यभिजनकपदः सर्वदा पर्वतेन्द्रः।।1।। यस्य प्राहुः स्वरूपं सकलदिविषदां सारसर्वस्वयोगं यस्येषुः शार्ङ्गधन्वा समजनि जगतां रक्षणे जागरूकः। मौर्वी दर्वीकराणामपि च परिबृढः पूस्त्रयी सा च लक्ष्यंसोऽव्यादव्याजमस्मानशिवभिदनिशं नाकिनां श्रीपिनाकः।।2।। आतङ्कावेगहारी सकलदिविषदामाङ्घ्रिपद्माश्रयाणां मातङ्गाद्युग्रदैत्यप्रकरतनुगलद्रक्तधाराक्तधारः। क्रूरः सूरायुतानामपि च परिभवं स्वीयभासा वितन्वन्घोराकारः कुठारो दृढतरदुरिताख्याटवीं पाटयेन्नः।।3।। कालारातेः कराग्रे कृतवसतिरुरःशाणशातो रिपूणां काले काले कुलाद्रिप्रवरतनयया कल्पितस्नेहलेपः। पायान्नः पावकार्चिःप्रसरसखमुखः पापहन्ता नितान्तंशूलः […]