अर्धनारीश्वरस्तोत्रम्

।।श्रीः।। ।।अर्धनारीश्वरस्तोत्रम्।।चाम्पेयगौरार्धशरीरकायै कर्पूरगौरार्धशरीरकाय। धम्मिल्लकायै च जटाधरायनमः शिवायै च नमः शिवाय।।1।। कस्तूरिकाकुङ्कुमचर्चितायै चितारजःपुञ्जविचर्चिताय। कृतस्मरायै विकृतस्मरायनमः शिवायै च नमः शिवाय।।2।। झणत्क्वणत्कङ्कणनूपुरायै पादाब्जराजत्फणिनूपुराय। हेमाङ्गदायै भुजगाङ्गदायनमः शिवायै च नमः शिवाय।।3।। विशालनीलोत्पललोचनायै विकासिपङ्केरुहलोचनाय। समेक्षणायै विषमेक्षणायनमः शिवायै च नमः शिवाय।।4।। मन्दारमालाकलितालकायै कपालमालाङ्कितकन्धराय। दिव्याम्बरायै च दिगम्बरायनमः शिवायै च नमः शिवाय।।5।। अम्भोधरश्यामलकुन्तलायै तटित्प्रभाताम्रजटाधराय। निरीश्वरायै निखिलेश्वरायनमः शिवायै च नमः शिवाय।।6।। प्रपञ्चसृष्ट्युन्मुखलास्यकायै समस्तसंहारकताण्डवाय। जगज्जनन्यै जगदेकपित्रेनमः […]

अर्धनारीश्वरस्तोत्रम् Read More »