द्वादशलिङ्गस्तोत्रम्
।।श्रीः।। ।।द्वादशलिङ्गस्तोत्रम्।।सौराष्ट्रदेशे वसुधावकाशे ज्योतिर्मयं चन्द्रकलावतंसम्। भक्तिप्रदानाय कृतावतारंतं सोमनाथं शरणं प्रपद्ये।।1।। श्रीशैलश्रृङ्गे विविधप्रसङ्गे शेषाद्रिश्रृङ्गेऽपि सदा वसन्तम्। तमर्जुनं मल्लिकपूर्वमेनंनमामि संसारसमुद्रसेतुम्।।2।। अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम्। अकालमृत्योः परिरक्षणार्थंवन्दे महाकालमहं सुरेशम्।।3।। कावेरिकानर्मदयोः पवित्रे समागमे सज्जनतारणाय। सदैव मान्धातृपुरे वसन्तमोंकारमीशं शिवमेकमीढे।।4।। पूर्वोत्तरे पारलिकाभिधाने सदाशिवं तं गिरिजासमेतम्। सुरासुराराधितपादपद्मंश्रीवैद्यनाथं सततं नमामि।।5।। आमर्दसंज्ञे नगरे च रम्ये विभूषिताङ्गं विविधैश्व भोगैः। सद्भुक्तिमुक्तिप्रदमीशमेकंश्रीनागनाथं शरणं प्रपद्ये।।6।। सानन्दमानन्दवने वसन्त […]