द्वादशलिङ्गस्तोत्रम्

।।श्रीः।।

।।द्वादशलिङ्गस्तोत्रम्।।
सौराष्ट्रदेशे वसुधावकाशे

ज्योतिर्मयं चन्द्रकलावतंसम्।

भक्तिप्रदानाय कृतावतारं
तं सोमनाथं शरणं प्रपद्ये।।1।।

श्रीशैलश्रृङ्गे विविधप्रसङ्गे

शेषाद्रिश्रृङ्गेऽपि सदा वसन्तम्।

तमर्जुनं मल्लिकपूर्वमेनं
नमामि संसारसमुद्रसेतुम्।।2।।

अवन्तिकायां विहितावतारं

मुक्तिप्रदानाय च सज्जनानाम्।

अकालमृत्योः परिरक्षणार्थं
वन्दे महाकालमहं सुरेशम्।।3।।

कावेरिकानर्मदयोः पवित्रे

समागमे सज्जनतारणाय।

सदैव मान्धातृपुरे वसन्त
मोंकारमीशं शिवमेकमीढे।।4।।

पूर्वोत्तरे पारलिकाभिधाने

सदाशिवं तं गिरिजासमेतम्।

सुरासुराराधितपादपद्मं
श्रीवैद्यनाथं सततं नमामि।।5।।

आमर्दसंज्ञे नगरे च रम्ये

विभूषिताङ्गं विविधैश्व भोगैः।

सद्भुक्तिमुक्तिप्रदमीशमेकं
श्रीनागनाथं शरणं प्रपद्ये।।6।।

सानन्दमानन्दवने वसन्त

मानन्दकन्दं हतपापबृन्दम्।

वाराणसीनाथमनाथनाथं
श्रीविश्वनाथं शरणं प्रपद्ये।।7।।

यो डाकिनीशाकिनिकासमाजे

निषेव्यमाणः पिशिताशनैश्च।

सदैव भीमादिपदप्रसिद्धं
तं शंकरं भक्तहितं नमामि।।8।।

श्रीताम्रपर्णीजलराशियोगे

निबद्धय सेतुं निशि बिल्वपत्रैः।

श्रीरामचन्द्रेण समर्चितं तं
रामेश्वराख्यं सततं नमामि।।9।।

सिहाद्रिपाश्र्वेऽपि तटे रमन्तं

गोदावरीतीरपवित्रदेशे।

यद्दर्शनात्पातकजातनाशः
प्रजायते त्र्यम्बकमीशमीडे।।10।।

हिमाद्रिपाश्र्वेऽपि तटे रमन्तं

संपूज्यमानं सततं मुनीन्द्रैः।

सुरासुरैर्यक्षमहोरगाद्यैः
केदारसंज्ञं शिवमीशमीडे।।11।।

एलापुरीरम्यशिवालयेऽस्मि

न्समुल्लसन्तं त्रिजगद्वरेण्यम्।

वन्दे महोदारतरस्वभावं
सदाशिवं तं धिषणेश्वराख्यम्।।12।।

एतानि लिङ्गानि सदैव मर्त्याः

प्रातः पठन्तोऽमलमानसाश्च।

ते पुत्रपौत्रैश्च धनैरुदारैः
सत्कीर्तिभाजः सुखिनो भवन्ति।।13।।

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ

द्वादशलिङ्गस्तोत्रं संपूर्णम्।

Leave a Comment

Your email address will not be published. Required fields are marked *

This site is protected by reCAPTCHA and the Google Privacy Policy and Terms of Service apply.