॥ श्रीषोडशबाहुनृसिंहाष्टकम् ॥
भूखण्डं वारणाण्डं परवरविरटं डंपडंपोरुडंपं, डिं डिं डिं डिं डिडिम्बं दहमपि दहमैः झम्पझम्पैश्चझम्पैः ।
तुल्यास्तुल्यास्तु तुल्याः धुमधुमधुमकैः कुङ्कुमाङ्कैः कुमाङ्कैः, एतत्ते पूर्णयुक्तमहरहकरहः पातु मां नारसिंहः ॥ १॥
भूभृद्भूभृद्भुजङ्गं प्रलयरववरं प्रज्वलद्ज्वालमालं, खर्जर्जं खर्जदुर्जं खिखचखचखचित्खर्जदुर्जर्जयन्तं ।
भूभागं भोगभागं गगगगगगनं गर्दमर्त्युग्रगण्डं, स्वच्छं पुच्छं स्वगच्छं स्वजनजननुतः पातु मां नारसिंहः ॥ २॥
एनाभ्रं गर्जमानं लघुलघुमकरो बालचन्द्रार्कदंष्ट्रो, हेमाम्भोजं सरोजं जटजटजटिलो जाड्यमानस्तुभीतिः ।
दन्तानां बाधमानां खगटखगटवो भोजजानुस्सुरेन्द्रो, निष्प्रत्यूहं सराजा गहगहगहतः पातु मां नारसिंहः ॥ ३॥
शङ्खं चक्रं च चापं परशुमशमिषुं शूलपाशाङ्कुशास्त्रं, बिभ्रन्तं वज्रखेटं हलमुसलगदाकुन्तमत्युग्रदंष्ट्रं ।
ज्वालाकेशं त्रिनेत्रं ज्वलदनलनिभं हारकेयूरभूषं, वन्दे प्रत्येकरूपं परपदनिवसः पातु मां नारसिंहः ॥ ४॥
पादद्वन्द्वं धरित्रीकटिविपुलतरो मेरुमध्यूढ्वमूरुं, नाभिं ब्रह्माण्डसिन्धुः हृदयमपि भवो भूतविद्वत्समेतः ।
दुश्चक्राङ्कं स्वबाहुं कुलिशनखमुखं चन्द्रसूर्याग्निनेत्रं, वक्त्रं वह्निस्सुविद्युत्सुरगणविजयः पातु मां नारसिंहः ॥ ५॥
नासाग्रं पीनगण्डं परबलमथनं बद्धकेयूरहारं, रौद्रं दंष्ट्राकरालं अमितगुणगणं कोटिसूर्याग्निनेत्रं ।
गाम्भीर्यं पिङ्गलाक्षं भ्रुकुटितविमुखं षोडशाधार्धबाहुं, वन्दे भीमाट्टहासं त्रिभुवनविजयः पातु मां नारसिंहः ॥ ६॥
के के नृसिंहाष्टके नरवरसदृशं देवभीत्वं गृहीत्वा, देवन्द्यो विप्रदण्डं प्रतिवचन पयायाम्यनप्रत्यनैषीः ।
शापं चापं च खड्गं प्रहसितवदनं चक्रचक्रीचकेन, ओमित्ये दैत्यनादं प्रकचविविदुषा पातु मां नारसिंहः ॥ ७॥
झं झं झं झं झकारं झषझषझषितं जानुदेशं झकारं, हुं हुं हुं हुं हकारं हरित कहहसा यं दिशे वं वकारं ।
वं वं वं वं वकारं वदनदलिततं वामपक्षं सुपक्षं, लं लं लं लं लकारं लघुवणविजयः पातु मां नारसिंहः ॥ ८॥
भूतप्रेतपिशाचयक्षगणशः देशान्तरोच्चाटना, चोरव्याधिमहज्ज्वरं भयहरं शत्रुक्षयं निश्चयं ।
सन्ध्याकाले जपतमष्टकमिदं सद्भक्तिपूर्वादिभिः, प्रह्लादेव वरो वरस्तु जयिता सत्पूजितां भूतये ॥ ९॥
॥ इति श्रीविजयीन्द्रयतिकृतं श्रीषोडशबाहुनृसिंहाष्टकं सम्पूर्णं ॥