।।श्रीः।। ।।दक्षिणामूर्तिस्तोत्रम्।।उपासकानां यदुपासनीय मुपात्तवासं वटशाखिमूले। तद्धाम दाक्षिण्यजुषा स्वमूर्त्याजागर्तु चित्ते मम बोधरूपम्।।1।। अद्राक्षमक्षीणदयानिधान माचार्यमाद्यं वटमूलभागे। मौनेन मन्दस्मितभूषितेनमहर्षिलोकस्य तमो नुदन्तम्।।2।। विद्राविताशेषतमोगणेन मुद्राविशेषेण मुहुर्मुनीनाम्। निरस्य मायां दयया विधत्तेदेवो महांस्तत्त्वमसीति बोधम्।।3।। अपारकारुण्यसुधातरङ्गै रपाङ्गपातैरवलोकयन्तम्। कठोरसंसारनिदाघतप्तान्मुनीनहं नौमि गुरुं गुरूणाम्।।4।। ममाद्यदेवो वटमूलवासी कृपाविशेषात्कृतसंनिधानः। ओंकाररूपामुपदिश्य विद्यामाविद्यकध्वान्तमपाकरोतु।।5।। कलाभिरिन्दोरिव कल्पिताङ्गं मुक्ताकलापैरिव बद्धमूर्तिम्। आलोकये देशिकमप्रमेयमनाद्यविद्यातिमिरप्रभातम्।।6।। स्वदक्षजानुस्थितवामपादं पादोदरालंकृतयोगपट्टम्। अपस्मृतेराहितपादमङ्गेप्रणौमि देवं प्रणिधानवन्तम्।।7।। युवापि यः सन्नुपदेष्टुमीष्टे।प्रणौमि तं प्राक्तनपुण्यजालैराचार्यमाश्चर्यगुणाधिवासम्।।8।। एकेन… Continue reading दक्षिणामूर्तिस्तोत्रम्
Author: Batuk
कालभैरवाष्टकम्
।।श्रीः।। ।।कालभैरवाष्टकम्।। देवराजसेव्यमानपावनाङ्घ्रिपङ्कजं व्यालयज्ञसूत्रबिन्दुशेखरं कृपाकरम्। नारदादियोगिबृन्दवन्दितं दिगम्बरंकाशिकापुराधिनाथकालभैरवं भजे।।1।। भानुकोटिभास्वरं भवाब्धितारकं परं नीलकण्ठमीप्सितार्थदायकं त्रिलोचनम्। कालकालमम्बुजाक्षमक्षशूलमक्षरंकाशिकापुराधिनाथकालभैरवं भजे।।2।। शूलटङ्कपाशदण्डपाणिमादिकारणं श्यामकायमादिदेवमक्षरं निरामयम्। भीमविक्रमं प्रभुं विचित्रताण्डवप्रियंकाशिकापुराधिनाथकालभैरवं भजे।।3।। भुक्तिमुक्तिदायकं प्रशस्तचारुविग्रहं भक्तवत्सलं स्थिरं समस्तलोकविग्रहम्। निक्वणन्मनोज्ञहेमकिङ्किणीलसत्कटिंकाशिकापुराधिनाथकालभैरवं भजे।।4।। धर्मसेतुपालकं त्वधर्ममार्गनाशकं कर्मपाशमोचकं सुशर्मदायकं विभुम्। स्वर्णवर्णकेशपाशशोभिताङ्गनिर्मलंकाशिकापुराधिनाथकालभैरवं भजे।।5।। रत्नपादुकाप्रभाभिरामपादयुग्मकं नित्यमद्वितीयमिष्टदैवतं निरञ्जनम्। मृत्युदर्पनाशनं करालदंष्ट्रभूषणंकाशिकापुराधिनाथकालभैरवं भजे।।6।। अट्टहासभिन्नपद्मजाण्डकोशसंततिं दृष्टिपातनष्टपापजालमुग्रशासनम्। अष्टसिद्धिदायकं कपालमालिकाधरंकाशिकापुराधिनाथकालभैरवं भजे।।7।। भूतसङ्घनायकं विशालकीर्तिदायकं काशिवासिलोकपुण्यपापशोधकं विभुम्। नीतिमार्गकोविदं पुरातनं जगत्पतिंकाशिकापुराधिनाथकालभैरवं भजे।।8।।… Continue reading कालभैरवाष्टकम्
शिवापराधक्षमापणस्तोत्रम्
।।श्रीः।। ।।शिवापराधक्षमापणस्तोत्रम्।।आदौ कर्म प्रसङ्गात्कलयति कलुषं मातृकुक्षौ स्थितं मां विण्मूत्रामेध्यमध्ये क्वथयति नितरां जाठरो जातवेदाः। यद्यद्वै तत्र दुःखं व्यथयति नितरां शक्यते केन वक्तुंक्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो।।1।। बाल्ये दुःखातिरेकान्मललुलितवपुः स्तन्यपाने पिपासु र्नो शक्तश्चेन्द्रियेभ्यो भव मलजनिता जन्तवो मां तुदन्ति। नानारोगातिदुःखाद्रुदितपरवशः शंकरं न स्मरामिक्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो।।2।। प्रौढोऽहं यौवनस्थो विषयविषधरैः पञ्चभिर्मर्मसंधौ दष्टो… Continue reading शिवापराधक्षमापणस्तोत्रम्
शिवपादादिकेशान्तवर्णनस्तोत्रम्
।।श्रीः।। ।।शिवपादादिकेशान्तवर्णनस्तोत्रम्।।कल्याणं नो विधत्तां कटकतटलसत्कल्पवाटीनिकुञ्ज क्रीडासंसक्तविद्याधरनिकरवधूगीतरुद्रापदानः। तारैर्हेरम्बनादैस्तरलितनिनदत्तारकारातिकेकीकैलासः शर्वनिर्वृत्यभिजनकपदः सर्वदा पर्वतेन्द्रः।।1।। यस्य प्राहुः स्वरूपं सकलदिविषदां सारसर्वस्वयोगं यस्येषुः शार्ङ्गधन्वा समजनि जगतां रक्षणे जागरूकः। मौर्वी दर्वीकराणामपि च परिबृढः पूस्त्रयी सा च लक्ष्यंसोऽव्यादव्याजमस्मानशिवभिदनिशं नाकिनां श्रीपिनाकः।।2।। आतङ्कावेगहारी सकलदिविषदामाङ्घ्रिपद्माश्रयाणां मातङ्गाद्युग्रदैत्यप्रकरतनुगलद्रक्तधाराक्तधारः। क्रूरः सूरायुतानामपि च परिभवं स्वीयभासा वितन्वन्घोराकारः कुठारो दृढतरदुरिताख्याटवीं पाटयेन्नः।।3।। कालारातेः कराग्रे कृतवसतिरुरःशाणशातो रिपूणां काले काले कुलाद्रिप्रवरतनयया कल्पितस्नेहलेपः। पायान्नः पावकार्चिःप्रसरसखमुखः पापहन्ता नितान्तंशूलः… Continue reading शिवपादादिकेशान्तवर्णनस्तोत्रम्
शिवानन्दलहरी
।।श्रीः।। ।।शिवानन्दलहरी।।कलाभ्यां चूडालंकृतशशिकलाभ्यां निजतपः फलाभ्यां भक्तेषु प्रकटितफलाभ्यां भवतु मे। शिवाभ्यामस्तोकत्रिभुवनशिवाभ्यां हृदि पुनर्भवाभ्यामानन्दस्फुरदनुभवाभ्यां नतिरियम्।।1।। गलन्ती शंभो त्वच्चरितसरितः किल्बिषरजो दलन्ती धीकुल्यासरणिषु पतन्ती विजयताम्। दिशन्ती संसारभ्रमणपरितापोपशमनंवसन्ती मच्चेतोह्रदभुवि शिवानन्दलहरी।।2।। त्रयीवेद्यं हृद्यं त्रिपुरहरमाद्यं त्रिनयनं जटाभारोदारं चलदुरगहारं मृगधरम्। महादेवं देवं मयि सदयभावं पशुपतिंचिदालम्बं साम्बं शिवमतिविडम्बं हृदि भजे।।3।। सहस्रं वर्तन्ते जगति विबुधाः क्षुद्रफलदा न मन्ये स्वप्ने वा तदनुसरणं तत्कृतफलम्। हरिब्रह्मादीनामपि निकटभाजामसुलभंचिरं याचे… Continue reading शिवानन्दलहरी
श्रीदक्षिणामूर्तिवर्णमालास्तोत्रम्
।।श्रीः।। ।।श्रीदक्षिणामूर्तिवर्णमालास्तोत्रम्।।मित्येतद्यस्य बुधैर्नाम गृहीतं यद्भासेदं भाति समस्तं वियदादि। यस्याज्ञातः स्वस्वपदस्था विधिमुख्यास्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि।।1।। नम्राङ्गाणां भक्तिमतां यः पुरुषार्था न्दत्वा क्षिप्रं हन्ति च तत्सर्वविपत्तीः। पादाम्भोजाधस्तनितापस्मृतिमीशंतं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि।।2।। मोहध्वस्त्यै वैणिकवैयासिकिमुख्याः संविन्मुद्रापुस्तकवीणाक्षगुणान्यम्। हस्ताम्भोजैर्बिभ्रतमाराधितवन्तस्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि।।3।। भद्रारूढं भद्रदमाराधयितृ़णां भक्तिश्रद्धापूर्वकमीशं प्रणमन्ति। आदित्या यं वाञ्छितसिद्ध्यै करुणाब्धिंतं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि।।4।। गर्भान्तःस्थाः प्राणिन एते भवपाश च्छेदे दक्षं निश्िचतवन्तः शरणं यम्। आराध्याङ्घ्रिप्रस्फुरदम्भोरुहयुग्मंतं… Continue reading श्रीदक्षिणामूर्तिवर्णमालास्तोत्रम्
श्रीदक्षिणामूर्त्यष्टकम्
।।श्रीः।। ।।श्रीदक्षिणामूर्त्यष्टकम्।।विश्वं दर्पणदृश्यमाननगरीतुल्यं निजान्तर्गतं पश्यन्नात्मनि मायया बहिरिवोद्भूतं यथा निद्रया। यः साक्षात्कुरुते प्रबोधसमये स्वात्मानमेवाद्वयंतस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये।।1।। बीजस्यान्तरिवाङ्कुरो जगदिदं प्राङ्निर्विकल्पं पुन र्मायाकल्पितदेशकालकलनावैचित्र्यचित्रीकृतम्। मायावीव विजृम्भयत्यपि महायोगीव यः स्वेच्छयातस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये।।2।। यस्यैव स्फुरणं सदात्मकमसत्कल्पार्थगं भासते साक्षात्तत्त्वमसीति वेदवचसा यो बोधयत्याश्रितान्। यत्साक्षात्करणाद्भवेन्न पुनरावृत्तिर्भवाम्भोनिधौतस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये।।3।। नानाच्छिद्रघटोदरस्थितमहादीपप्रभाभास्वरं ज्ञानं यस्य तु चक्षुरादिकरणद्वारा बहिः स्पन्दते। जानामीति तमेव भान्तमनुभात्येतत्समस्तं… Continue reading श्रीदक्षिणामूर्त्यष्टकम्
श्रीमृत्युंजयमानसिकपूजास्तोत्रम्
।।श्रीः।। ।।श्रीमृत्युंजयमानसिकपूजास्तोत्रम्।।कैलासे कमनीयरत्नखचिते कल्पद्रुमूले स्थितं कर्पूरस्फटिकेन्दुसुन्दरतनुं कात्यायनीसेवितम्। गङ्गातुङ्गतरङ्गरञ्जितजटाभारं कृपासागरंकण्ठालंकृतशेषभूषणममुं मृत्युंजयं भावये।।1।। आगत्य मृत्युंजय चन्द्रमौले व्याघ्राजिनालंकृत शूलपाणे। स्वभक्तसंरक्षणकामधेनोप्रसीद विश्वेश्वर पार्वतीश।।2।। भास्वन्मौक्तिकतोरणे मरकतस्तम्भायुतालंकृते सौधे धूपसुवासिते मणिमये माणिक्यदीपाञ्चिते। ब्रह्मेन्द्रामरयोगिपुंगवगणैर्युक्ते च कल्पद्रुमैःश्रीमृत्युंजय सुस्थिरो भव विभो माणिक्यसिंहासने।।3।। मन्दारमल्लकरवीरमाधवी पुंनागनीलोत्पलचम्पकान्वितैः। कर्पूरपाटीरसुवासितैर्जलैराधत्स्व मृत्युंजय पाद्यमुत्तमम्।।4।। सुगन्धपुष्पप्रकरैः सुवासितै र्वियन्नदीशीतलवारिभिः शुभैः। त्रिलोकनाथार्तिहरार्घ्यमादराद्गृहाण मृत्युंजय सर्ववन्दित।।5।। हिमाम्बुवासितैस्तोयैः शीतलैरतिपावनैः।मृत्युंजय महादेव शुद्धाचमनमाचर।।6।। गुडदधिसहितं मधुप्रकीर्णं सुघृतसमन्वितधेनुदुग्धयुक्तम्। शुभकर मधुपर्कमाहर त्वंत्रिनयन मृत्युहर… Continue reading श्रीमृत्युंजयमानसिकपूजास्तोत्रम्
दशश्लोकीस्तुतिः
।।श्रीः।। ।।दशश्लोकीस्तुतिः।।साम्बो नः कुलदैवतं पशुपते साम्ब त्वदीया वयं साम्बं स्तौमि सुरासुरोरगगणाः साम्बेन संतारिताः। साम्बायास्तु नमो मया विरचितं साम्बात्परं नो भजे।साम्बस्यानुचरोऽस्म्यहं मम रतिः साम्बे परब्रह्मणि।।1।। विष्ण्वाद्याश्च पुरत्रयं सुरगणा जेतुं न शक्ताः स्वयं यं शंभुं भगवन्वयं तु पशवोऽस्माकं त्वमेवेश्वरः। स्वस्वस्थाननियोजिताः सुमनसः स्वस्था बभूवुस्ततस्तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि।।2।। क्षोणी यस्य रथो रथाङ्गयुगलं चन्द्रार्कबिम्बद्वयं कोदण्डः कनकाचलो हरिरभूद्बाणो विधिः… Continue reading दशश्लोकीस्तुतिः
शिवपञ्चाक्षरनक्षत्रमालास्तोत्रम्
।।श्रीः।। ।।शिवपञ्चाक्षरनक्षत्रमालास्तोत्रम्।।श्रीमदात्मने गुणैकसिन्धवे नमः शिवाय धामलेशधूतकोकबन्धवे नमः शिवाय। नामशेषितानमद्भवान्धवे नमः शिवायपामरेतरप्रधानबन्धवे नमः शिवाय।।1।। कालभीतविप्रबालपाल ते नमः शिवाय शूलभिन्नदुष्टदक्षफाल ते नमः शिवाय। मूलकारणाय कालकाल ते नमः शिवायपालयाधुना दयालवाल ते नमः शिवाय।।2।। इष्टवस्तुमुख्यदानहेतवे नमः शिवाय दुष्टदैत्यवंशधूमकेतवे नमः शिवाय। सृष्टिरक्षणाय धर्मसेतवे नमः शिवायअष्टमूर्तये वृषेन्द्रकेतवे नमः शिवाय।।3।। आपदद्रिभेदटङ्कहस्त ते नमः शिवाय पापहारिदिव्यसिन्धुमस्त ते नमः शिवाय। पापदारिणे लसन्नमस्तते नमः शिवायशापदोषखण्डनप्रशस्त… Continue reading शिवपञ्चाक्षरनक्षत्रमालास्तोत्रम्