शिवानन्दलहरी

।।श्रीः।। ।।शिवानन्दलहरी।।कलाभ्यां चूडालंकृतशशिकलाभ्यां निजतपः फलाभ्यां भक्तेषु प्रकटितफलाभ्यां भवतु मे। शिवाभ्यामस्तोकत्रिभुवनशिवाभ्यां हृदि पुनर्भवाभ्यामानन्दस्फुरदनुभवाभ्यां नतिरियम्।।1।। गलन्ती शंभो त्वच्चरितसरितः किल्बिषरजो दलन्ती धीकुल्यासरणिषु पतन्ती विजयताम्। दिशन्ती संसारभ्रमणपरितापोपशमनंवसन्ती मच्चेतोह्रदभुवि शिवानन्दलहरी।।2।। त्रयीवेद्यं हृद्यं त्रिपुरहरमाद्यं त्रिनयनं जटाभारोदारं चलदुरगहारं मृगधरम्। महादेवं देवं मयि सदयभावं पशुपतिंचिदालम्बं साम्बं शिवमतिविडम्बं हृदि भजे।।3।। सहस्रं वर्तन्ते जगति विबुधाः क्षुद्रफलदा न मन्ये स्वप्ने वा तदनुसरणं तत्कृतफलम्। हरिब्रह्मादीनामपि निकटभाजामसुलभंचिरं याचे… Continue reading शिवानन्दलहरी

श्रीदक्षिणामूर्तिवर्णमालास्तोत्रम्

।।श्रीः।। ।।श्रीदक्षिणामूर्तिवर्णमालास्तोत्रम्।।मित्येतद्यस्य बुधैर्नाम गृहीतं यद्भासेदं भाति समस्तं वियदादि। यस्याज्ञातः स्वस्वपदस्था विधिमुख्यास्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि।।1।। नम्राङ्गाणां भक्तिमतां यः पुरुषार्था न्दत्वा क्षिप्रं हन्ति च तत्सर्वविपत्तीः। पादाम्भोजाधस्तनितापस्मृतिमीशंतं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि।।2।। मोहध्वस्त्यै वैणिकवैयासिकिमुख्याः संविन्मुद्रापुस्तकवीणाक्षगुणान्यम्। हस्ताम्भोजैर्बिभ्रतमाराधितवन्तस्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि।।3।। भद्रारूढं भद्रदमाराधयितृ़णां भक्तिश्रद्धापूर्वकमीशं प्रणमन्ति। आदित्या यं वाञ्छितसिद्ध्यै करुणाब्धिंतं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि।।4।। गर्भान्तःस्थाः प्राणिन एते भवपाश च्छेदे दक्षं निश्िचतवन्तः शरणं यम्। आराध्याङ्घ्रिप्रस्फुरदम्भोरुहयुग्मंतं… Continue reading श्रीदक्षिणामूर्तिवर्णमालास्तोत्रम्

श्रीदक्षिणामूर्त्यष्टकम्

।।श्रीः।। ।।श्रीदक्षिणामूर्त्यष्टकम्।।विश्वं दर्पणदृश्यमाननगरीतुल्यं निजान्तर्गतं पश्यन्नात्मनि मायया बहिरिवोद्भूतं यथा निद्रया। यः साक्षात्कुरुते प्रबोधसमये स्वात्मानमेवाद्वयंतस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये।।1।। बीजस्यान्तरिवाङ्कुरो जगदिदं प्राङ्निर्विकल्पं पुन र्मायाकल्पितदेशकालकलनावैचित्र्यचित्रीकृतम्। मायावीव विजृम्भयत्यपि महायोगीव यः स्वेच्छयातस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये।।2।। यस्यैव स्फुरणं सदात्मकमसत्कल्पार्थगं भासते साक्षात्तत्त्वमसीति वेदवचसा यो बोधयत्याश्रितान्। यत्साक्षात्करणाद्भवेन्न पुनरावृत्तिर्भवाम्भोनिधौतस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये।।3।। नानाच्छिद्रघटोदरस्थितमहादीपप्रभाभास्वरं ज्ञानं यस्य तु चक्षुरादिकरणद्वारा बहिः स्पन्दते। जानामीति तमेव भान्तमनुभात्येतत्समस्तं… Continue reading श्रीदक्षिणामूर्त्यष्टकम्

श्रीमृत्युंजयमानसिकपूजास्तोत्रम्

।।श्रीः।। ।।श्रीमृत्युंजयमानसिकपूजास्तोत्रम्।।कैलासे कमनीयरत्नखचिते कल्पद्रुमूले स्थितं कर्पूरस्फटिकेन्दुसुन्दरतनुं कात्यायनीसेवितम्। गङ्गातुङ्गतरङ्गरञ्जितजटाभारं कृपासागरंकण्ठालंकृतशेषभूषणममुं मृत्युंजयं भावये।।1।। आगत्य मृत्युंजय चन्द्रमौले व्याघ्राजिनालंकृत शूलपाणे। स्वभक्तसंरक्षणकामधेनोप्रसीद विश्वेश्वर पार्वतीश।।2।। भास्वन्मौक्तिकतोरणे मरकतस्तम्भायुतालंकृते सौधे धूपसुवासिते मणिमये माणिक्यदीपाञ्चिते। ब्रह्मेन्द्रामरयोगिपुंगवगणैर्युक्ते च कल्पद्रुमैःश्रीमृत्युंजय सुस्थिरो भव विभो माणिक्यसिंहासने।।3।। मन्दारमल्लकरवीरमाधवी पुंनागनीलोत्पलचम्पकान्वितैः। कर्पूरपाटीरसुवासितैर्जलैराधत्स्व मृत्युंजय पाद्यमुत्तमम्।।4।। सुगन्धपुष्पप्रकरैः सुवासितै र्वियन्नदीशीतलवारिभिः शुभैः। त्रिलोकनाथार्तिहरार्घ्यमादराद्गृहाण मृत्युंजय सर्ववन्दित।।5।। हिमाम्बुवासितैस्तोयैः शीतलैरतिपावनैः।मृत्युंजय महादेव शुद्धाचमनमाचर।।6।। गुडदधिसहितं मधुप्रकीर्णं सुघृतसमन्वितधेनुदुग्धयुक्तम्। शुभकर मधुपर्कमाहर त्वंत्रिनयन मृत्युहर… Continue reading श्रीमृत्युंजयमानसिकपूजास्तोत्रम्

दशश्लोकीस्तुतिः

।।श्रीः।। ।।दशश्लोकीस्तुतिः।।साम्बो नः कुलदैवतं पशुपते साम्ब त्वदीया वयं साम्बं स्तौमि सुरासुरोरगगणाः साम्बेन संतारिताः। साम्बायास्तु नमो मया विरचितं साम्बात्परं नो भजे।साम्बस्यानुचरोऽस्म्यहं मम रतिः साम्बे परब्रह्मणि।।1।। विष्ण्वाद्याश्च पुरत्रयं सुरगणा जेतुं न शक्ताः स्वयं यं शंभुं भगवन्वयं तु पशवोऽस्माकं त्वमेवेश्वरः। स्वस्वस्थाननियोजिताः सुमनसः स्वस्था बभूवुस्ततस्तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि।।2।। क्षोणी यस्य रथो रथाङ्गयुगलं चन्द्रार्कबिम्बद्वयं कोदण्डः कनकाचलो हरिरभूद्बाणो विधिः… Continue reading दशश्लोकीस्तुतिः

शिवपञ्चाक्षरनक्षत्रमालास्तोत्रम्

।।श्रीः।। ।।शिवपञ्चाक्षरनक्षत्रमालास्तोत्रम्।।श्रीमदात्मने गुणैकसिन्धवे नमः शिवाय धामलेशधूतकोकबन्धवे नमः शिवाय। नामशेषितानमद्भवान्धवे नमः शिवायपामरेतरप्रधानबन्धवे नमः शिवाय।।1।। कालभीतविप्रबालपाल ते नमः शिवाय शूलभिन्नदुष्टदक्षफाल ते नमः शिवाय। मूलकारणाय कालकाल ते नमः शिवायपालयाधुना दयालवाल ते नमः शिवाय।।2।। इष्टवस्तुमुख्यदानहेतवे नमः शिवाय दुष्टदैत्यवंशधूमकेतवे नमः शिवाय। सृष्टिरक्षणाय धर्मसेतवे नमः शिवायअष्टमूर्तये वृषेन्द्रकेतवे नमः शिवाय।।3।। आपदद्रिभेदटङ्कहस्त ते नमः शिवाय पापहारिदिव्यसिन्धुमस्त ते नमः शिवाय। पापदारिणे लसन्नमस्तते नमः शिवायशापदोषखण्डनप्रशस्त… Continue reading शिवपञ्चाक्षरनक्षत्रमालास्तोत्रम्

शिवकेशादिपादान्तवर्णनस्तोत्रम्

।।श्रीः।। ।।शिवकेशादिपादान्तवर्णनस्तोत्रम्।।देयासुर्मूर्ध्नि राजत्सरससुरसरित्पारपर्यन्तनिर्य त्प्रांशुस्तम्बाः पिशङ्गास्तुलितपरिणतारक्तशालीलता वः। दुर्वारापत्तिगर्तश्रितनिखिलजनोत्तारणे रज्जुभूताघोराघोर्वीरुहालीदहनशिखिशिखाः शर्म शार्वाः कपर्दाः।।1।। कुर्वन्निर्वाणमार्गप्रगमपरिलसद्रूप्यसोपानशङ्कां शक्रारीणां पुराणां त्रयविजयकृतस्पष्टरेखायमाणम्। अव्यादव्याजमुच्चैरलिकहिमधराधित्यकान्तस्त्रिधोद्यज्जाह्नव्याभं मृडानीकमितुरुडुपरुक्पाण्डरं वस्त्रिपुण्ड्रम्।।2।। क्रुध्यद्गौरीप्रसादानतिसमयपदाङ्गुष्ठसंक्रान्तलाक्षा बिन्दुस्पर्धि स्मरारेः स्फटिकमणिदृषन्मग्नमाणिक्यशोभम्। मूर्ध्न्युद्यद्दिव्यसिन्धोः पतितशफरिकाकारि वो मास्तकं स्तादस्तोकापत्तिकृत्त्यै हुतवहकणिकामोक्षरूक्षं सदाक्षि।।3।। भूत्यै दृग्भूतयोः स्याद्यदहिमहिमरुग्बिम्बयोः स्निग्धवर्णो दैत्यौघध्वंसशंसी स्फुट इव परिवेषावशेषो विभाति। सर्गस्थित्यन्तवृत्तिर्मयि समुपगतेतीव निर्वृत्तगर्वंशर्वाणीभर्तुरुच्चैर्युगलमथ दधद्विभ्रमं तद्भ्रुवोर्वः।।4।। युग्मे रुक्माब्जपिङ्गे ग्रह इव पिहिते द्राग्ययोः प्राग्दुहित्रा शैलस्य ध्वान्तनीलाम्बररचितबृहत्कञ्चुकोऽभूत्प्रपञ्चः। ते त्रैनेत्रे पवित्रे… Continue reading शिवकेशादिपादान्तवर्णनस्तोत्रम्

वेदसारशिवस्तोत्रम्

।।श्रीः।। ।।वेदसारशिवस्तोत्रम्।।पशूनां पतिं पापनाशं परेशं गजेन्द्रस्य कृत्तिं वसानं वरेण्यम्। जटाजूटमध्ये स्फुरद्गाङ्गवारिंमहादेवमेकं स्मरामि स्मरारिम्।।1।। महेशं सुरेशं सुरारातिनाशं विभुं विश्वनाथं विभूत्यङ्गभूषम्। विरूपाक्षमिन्द्वर्कवह्नित्रिनेत्रंसदानन्दमीडे प्रभुं पञ्चवक्त्रम्।।2।। गिरीशं गणेशं गले नीलवर्णं गवेन्द्राधिरूढं गुणातीतरूपम्। भवं भास्वरं भस्मना भूषिताङ्गंभवानीकलत्रं भजे पञ्चवक्त्रम्।।3।। शिवाकान्त शंभो शशाङ्कार्धमौले महेशान शूलिञ्जटाजूटधारिन्। त्वमेको जगद्व्यापको विश्वरूपःप्रसीद प्रसीद प्रभो पूर्णरूप।।4।। परात्मानमेकं जगद्बीजमाद्यं निरीहं निराकारमोंकारवेद्यम्। यतो जायते पाल्यते येन विश्वंतमीशं भजे… Continue reading वेदसारशिवस्तोत्रम्

शिवनामावल्यष्टकम्

।।श्रीः।। शिवनामावल्यष्टकम्हे चन्द्रचूड मदनान्तक शूलपाणे स्थाणो गिरीश गिरिजेश महेश शंभो। भूतेश भीतभयसूदन मामनाथंसंसारदुःखगहनाज्जगदीश रक्ष।।1।। हे पार्वतीहृदयवल्लभ चन्द्रमौले भूताधिप प्रमथनाथ गिरीशचाप। हे वामदेव भव रुद्र पिनाकपाणेसंसारदुःखगहनाज्जगदीश रक्ष।।2।। हे नीलकण्ठ वृषभध्वज पञ्चवक्त्र लोकेश शेषवलय प्रमथेश शर्व। हे धूर्जटे पशुपते गिरिजापते मांसंसारदुःखगहनाज्जगदीश रक्ष।।3।। हे विश्वनाथ शिव शंकर देवदेव गङ्गाधर प्रमथनायक नन्दिकेश। बाणेश्वरान्धकरिपो हर लोकनाथसंसारदुःखगहनाज्जगदीश रक्ष।।4।। वाराणसीपुरपते मणिकर्णिकेश वीरेश… Continue reading शिवनामावल्यष्टकम्

शिवभुजंगम्

।।श्रीः।। ।।शिवभुजंगम्।।गलद्दानगण्डं मिलद्भृङ्गषण्डं चलच्चारुशुण्डं जगत्त्राणशौण्डम्। कनद्दन्तकाण्डं विपद्भङ्गचण्डंशिवप्रेमपिण्डं भजे वक्रतुण्डम्।।1।। अनाद्यन्तमाद्यं परं तत्त्वमर्थं चिदाकारमेकं तुरीयं त्वमेयम्। हरिब्रह्ममृग्यं परब्रह्मरूपंमनोवागतीतं महःशैवमीडे।।2।। स्वशक्त्यादिशक्त्यन्तसिंहासनस्थं मनोहारिसर्वाङ्गरत्नोरुभूषम्। जटाहीन्दुगङ्गास्थिशम्याकमौलिंपराशक्तिमित्रं नुमः पञ्चवक्त्रम्।।3।। शिवेशानतत्पूरुषाघोरवामा दिभिः पञ्चभिर्हृन्मुखैः षङ्भिरङ्गैः। अनौपम्य षट्त्रिंशतं तत्त्वविद्यामतीतं परं त्वां कथं वेत्ति को वा।।4।। प्रवालप्रवाहप्रभाशोणमर्धं मरुत्वन्मणिश्रीमहःश्याममर्धम्। गुणस्यूतमेतद्वपुः शैवमन्तःस्मरामि स्मरापत्तिसंपत्तिहेतोः।।5।। स्वसेवासमायातदेवासुरेन्द्रा नमन्मौलिमन्दारमालाभिषक्तम्। नमस्यामि शंभो पदाम्भोरुहं तेभवाम्भोधिपोतं भवानीविभाव्यम्।।6।। जगन्नाथ मन्नाथ गौरीसनाथ प्रपन्नानुकम्पिन्विपन्नार्तिहारिन्। महःस्तोममूर्ते समस्तैकबन्धोनमस्ते नमस्ते… Continue reading शिवभुजंगम्

Exit mobile version