उमामहेश्वरस्तोत्रम्

।।श्रीः।। ।।उमामहेश्वरस्तोत्रम्।।नमः शिवाभ्यां नवयौवनाभ्यां परस्पराश्िलष्टवपुर्धराभ्यां नगेन्द्रकन्यावृषकेतनाभ्यांनमो नमः शंकरपार्वतीभ्याम्।।1।। नमः शिवाभ्यां सरसोत्सवाभ्यां नमस्कृताभीष्टवरप्रदाभ्याम्। नारायणेनार्चितपादुकाभ्यांनमो नमः शंकरपार्वतीभ्याम्।।2।। नमः शिवाभ्यां वृषवाहनाभ्यां विरिञ्चिविष्ण्विन्द्रसुपूजिताभ्याम्। विभूतिपाटीरविलेपनाभ्यांनमो नमः शंकरपार्वतीभ्याम्।।3।। नमः शिवाभ्यां जगदीश्वराभ्यां जगत्पतिभ्यां जयविग्रहाभ्याम् जम्भारिमुख्यैरभिवन्दिताभ्यांनमो नमः शंकरपार्वतीभ्याम्।।4।। नमः शिवाभ्यां परमौषधाभ्यां पञ्चाक्षरीपञ्जररञ्जिताभ्याम्। प्रपञ्चसृष्टिस्थितिसंहृताभ्यांनमो नमः शंकरपार्वतीभ्याम्।।5।। नमः शिवाभ्यामतिसुन्दराभ्या मत्यन्तमासक्तहृदम्बुजाभ्याम्। अशेषलोकैकहितंकराभ्यांनमो नमः शंकरपार्वतीभ्याम्।।6।। नमः शिवाभ्यां कलिनाशनाभ्यां कङ्कालकल्याणवपुर्धराभ्याम्। कैलासशैलस्थितदेवताभ्यांनमो नमः शंकरपार्वतीभ्याम्।।7।। नमः शिवाभ्यामशुभापहाभ्या मशेषलोकैकविशेषिताभ्याम्। अकुण्ठिताभ्यां स्मृतिसंभृताभ्यांनमो […]

उमामहेश्वरस्तोत्रम् Read More »