शिवानन्दलहरी
।।श्रीः।। ।।शिवानन्दलहरी।।कलाभ्यां चूडालंकृतशशिकलाभ्यां निजतपः फलाभ्यां भक्तेषु प्रकटितफलाभ्यां भवतु मे। शिवाभ्यामस्तोकत्रिभुवनशिवाभ्यां हृदि पुनर्भवाभ्यामानन्दस्फुरदनुभवाभ्यां नतिरियम्।।1।। गलन्ती शंभो त्वच्चरितसरितः किल्बिषरजो दलन्ती धीकुल्यासरणिषु पतन्ती विजयताम्। दिशन्ती संसारभ्रमणपरितापोपशमनंवसन्ती मच्चेतोह्रदभुवि शिवानन्दलहरी।।2।। त्रयीवेद्यं हृद्यं त्रिपुरहरमाद्यं त्रिनयनं जटाभारोदारं चलदुरगहारं मृगधरम्। महादेवं देवं मयि सदयभावं पशुपतिंचिदालम्बं साम्बं शिवमतिविडम्बं हृदि भजे।।3।। सहस्रं वर्तन्ते जगति विबुधाः क्षुद्रफलदा न मन्ये स्वप्ने वा तदनुसरणं तत्कृतफलम्। हरिब्रह्मादीनामपि निकटभाजामसुलभंचिरं याचे […]